This page has not been fully proofread.

सर: ]
 
उत्पत्तिपदार्थभेदेन कारकव्यापारफलभेदः
 
315
 
सर्वार्थसिद्धिः
 
इति सिद्ध्यति । स एव यदोत्पत्तिर्विवक्षिता तदा कार्यार्थः
कारकव्यापार इत्येव वक्तव्यं । अन्यथा तूपचारः ।
क्रियैव कारकाणां स्यात् प्रतिसम्बन्धिनी त्यसत् ।
प्राक्सत्त्वासत्त्वसंक्षोभः तस्यामपि हि दुस्तरः ॥
आनन्ददायिनी
 
1
 
स एवेति-कारकव्यापार एवोत्पत्तिरित्यर्थः । ननु तर्हि कारकव्यापारस्यैवो-
त्पत्ति(शब्दार्थ)त्वे कार्यस्यैवोत्पत्त्यर्थं कारकव्यापार इति लोकव्यवहारोऽनु-
पपन्नः षष्ठ्यर्थाभावादित्यत आह- तदा कार्यार्थ इति । अन्यथेति–
कार्यस्योत्पत्त्यर्थे व्यवहार इत्यर्थः । ननु तर्हि कार्यमुत्पन्नमित्यत्र पौनरुक्तय-
प्रसङ्गः ? कृतिविषयत्वप्रागसत्स्वरूपलाभाकारेण शब्दबोध्याकारभेदान्न
प्रसङ्गः । नन्वभिव्यक्तिवादिनोऽपि क्रियार्थत्वेन कारकव्यापारसार्थक्य-
मित्याशङ्कय तद्दूषयति—कियैवेति । प्रागिति । तस्यां क्रियायां । ननु
क्रियाया अपि प्राक्सत्त्वमस्तु क्रियावद्भिः कारकैः पटादेः कार्यस्य
 
भावप्रकाशः
 
-
 
त्पत्तिरेव स्वपरनिर्वाहिका घटत्वावस्थारूपोत्पत्तेरुत्पन्नत्वव्यवहारं निर्वहति।
तदुक्तं शतदूषण्यां— ' ये चान्ये पश्यतोहराणां प्रलापाः-
न चेदुत्पत्तिरुत्पत्तेः नित्यत्वमनवस्थितिः ।
 
उत्पत्तावपि ; अतः कार्यं कारणं च निरूपितम् ॥
इत्येवमादयः ; तेऽप्यनयैव दिशा प्रशमनीयाः ' इति ।
 
सिद्धाऽनवस्थितिस्सामग्रयात्मकोत्पत्तिसंग्रहे ।
 
अन्यथा स्वपरत्राणान्न काचिदनवस्थितिः ॥
 
इतीति ।