2025-01-21 07:37:35 by ambuda-bot
This page has not been fully proofread.
314
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[
जडद्रव्य
सर्वार्थसिद्धिः
उपचाराद्भवतु वा *मा वा ; तदा कार्योत्पत्त्यर्थः कारकव्यापार
आनन्ददायिनी
भवतु वा मा वेति । उत्पत्तिशब्दस्योपचारोऽस्तु वा मा वा ; प्राग-
सिद्धस्वरूपत्वादुत्पत्तिः तदर्थं कारकव्यापार इति न वैयर्थ्यमित्यर्थः ।
भावप्रकाशः
ब्रह्मणः कार्यत्वं कारणत्वं च स्थापयता भगवता व्यासेन आरम्भ-
णाधिकरणेऽसत्कार्यवादनिरसनपूर्वकं सत्कार्यवादप्रतिष्ठापनेन अवस्था-
रूपः परिणाम एवोत्पत्तिशब्दमुख्यार्थः । असत्कार्यवादिसम्मता असत
उत्पत्तिः प्रागसिद्धस्वरूपलाभापरनामधेया या साऽमुख्य एवार्थ इति
सूचितम् । प्रागसिद्धस्वरूप लाभेत्याचार्यसूक्तया असत्कार्यवादिनैया ।
यिकमते प्रागसिद्धस्वरूपलाभस्य उत्पत्तिशब्दमुख्यार्थत्वं युक्तं न त्वाद्य-
क्षणसम्बन्धस्य असदुत्पत्तेः शब्दत एव प्रतीतिसम्भवात् लाघवाच्च -
स्वप्रागभावाधिकरणकालावृत्तित्वस्ववृत्तित्वैतदुभयसम्बन्धेन क्षणविशिष्ट ।
त्वापेक्षया निरुक्ताद्यक्षणसम्बन्धस्य गुरुत्वस्य स्फुटत्वादिति व्यञ्जितम् -
ननु आरम्भणाधिकरणे 'तदुत्पत्तिविनाशादीनां कारणभूतस्यैव द्रव्य-
स्यावस्थाविशेषत्वाभ्युपगमादेव' इत्युपक्रम्य 'अस्माकं त्ववस्थानां पृथ-
क्त्प्रतिपत्तिकार्ययोगानर्हत्वादवस्थावत एवात्पत्त्यादिकं सर्वमिति निरवद्यं '
इति भाष्यं । — पृथक्प्रतिपत्ति कार्यानधर्माः पृथगुत्पत्तिनिरपेक्षाः । अत
एव ह्युत्पत्तेरुत्पत्त्यादिनैरपेक्ष्यं । अवस्थैव वस्तुन उत्पत्तिः न त्ववस्थाया
उत्पत्तिर्नामास्तीति स्वपक्षवैषम्यद्योतनार्थस्तुशब्दः' इति श्रुतप्रकाशिका ।
अतः प्रागसिद्धस्वरूपलाभतात्पर्येण घटत्वावस्थाया उत्पत्तिव्यवहार
निर्वहणमनुचितमित्यत आह-- * मा वेति । एतत्पक्षे च द्रव्यस्यो-
1