This page has not been fully proofread.

सरः]
 
उत्पत्तेः अर्थान्तरत्वे औचित्यं अनवस्थापरिहारश्च
 
313
 
सर्वार्थसिद्धिः
 
'* नचेदृश्या उत्पत्तेरीदृशमुत्पत्यन्तरमस्ति । तथाऽपि * प्राग-
सिद्धस्वरूपलाभादुत्पत्तिशब्दः
 
आनन्ददायिनी
 
न स्यादित्यत आह-नचेदृश्या इति ।
 
भावप्रकाशः
 
प्रयोगोपपत्तिरित्यर्थः । ' * नचेत्यादि -- आद्यक्षणावच्छिन्नघटत्वावस्थाया
उत्पत्तिपदार्थत्वे घटत्वावस्थायामवस्थान्तरविरहेण घटत्वावस्थोत्पद्यते
इति व्यवहारानुपपत्तिः । तत्राप्यवस्थान्तराङ्गीकारेऽनवस्थाप्रसङ्गः ।
सामग्रयामनवस्थाया अदोषत्वेऽपि अत्रानवस्था दोष एवेति भावः ।
2 * प्रागसिद्धस्वरूपेति-स्वपूर्वक्षणावृत्तित्वस्ववृत्तित्त्वैतदुभयसम्बन्धेन क्षण-
विशिष्टत्वं तत्वम् । एतदुत्पत्तिशब्दलक्ष्यार्थः । लकारसमभिव्याहारे
कालसम्बन्धस्य तेनैव लाभात्स्ववृत्तित्वं परित्याज्यं एतत्तात्पर्येणैव
स्वरूपेत्युक्तिः । ननु आद्यक्षणसम्बन्धे अवस्थायां च खण्डश उत्पत्ति-
पदस्य शक्तिः स्वीक्रियतां ; यत्रावस्थारूपार्थस्य बाधः तत्राद्यक्षण-
सम्बन्धरूपस्य खण्डशक्तयुपस्थापितस्यापरार्थस्य प्रतीतिसम्भवेनोपचारा-
ङ्गीकारोऽनुचित इति चेन ; न; खण्डशरशक्तिस्थले एकार्थमात्रबोधो
लक्षणया निर्वाह्यः न तु शक्येति नव्यनैयायिकैस्सिद्धान्तितत्वात् ।
यद्यप्याद्यक्षणसम्बन्धप्रागसिद्धस्वरूपलाभयोरुत्पत्तिशब्द लक्ष्यार्थत्वाविशे-
घेऽप्याद्यक्षणसम्बन्धस्य शक्यतया प्रथममुपस्थितिर्वर्तते ; तथाऽपि
समभिव्याहृतपदार्थतावच्छेदकघटिताद्यत्वविशिष्टक्षणसम्बन्धस्यैव शक्य-
तयोपस्थितिः न तु समभिव्याहृतपदार्थघटिताद्यत्वस्येति बोध्यम् ।
आत्मकृतेः' परिणामात्' इत्यादिसूत्रैरवस्थारूपपरिणामनिबन्धनमेव
 
"