2025-01-21 07:37:35 by ambuda-bot
This page has not been fully proofread.
312
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
1
सर्वार्थसिद्धिः
' * अत एव 2 * सह प्रयोगोपपत्तिः ।
आनन्ददायिनी
कृत्यभिप्रायं चेत्यर्थः । एतेन उत्पत्तिर्न तावत् स्वरूपं घट उत्पन्न इति
सह प्रयोगानुपपत्तेः इति सांख्योक्तदूषणं निरस्तमित्याह — अत एवेति
ननु उत्पत्तिरुत्पद्यते न वा? आद्येऽनवस्था; अन्त्ये उत्पत्तावुत्पत्तिव्यवहारो
भावप्रकाशः
व्यासज्यवृत्तिधर्मस्यान्वयितावच्छेदकता तत्र तादृशधर्मधर्मितावच्छेदक-
घटत्वपटत्वादिधर्मेषु प्रत्येकं स्वावच्छेदकत्वेत्याद्युभयसम्बन्धेनान्वयः
इत्यादिना अर्वाचीनानां उत्पत्तिशब्दार्थस्य परिष्करणं; तत्र च मूल
'अखिलभुवनजन्मेति ' श्लोकविवरणतत्वटीकायां-
6
प्रागसिद्धस्यात्मलाभ उत्पत्तिर्जन्म
।
इति सूक्ति:; तत्राप्ययं दोषो बोध्यः । सिद्धान्ते पटोत्पत्तिक्षणे
घटस्थितिकाले घटपटोभयमुत्पद्यते इति व्यवहारस्य नापत्तिः ।
उभयत्वावच्छिन्ने घटे आद्यक्षणावच्छिन्नावस्थाविरहात् । वायुसंयोग-
सत्त्वेऽपि व्यासज्यवृत्तिधर्मस्य यत्रान्वयितावच्छेदकता तत्र तद्धर्म-
धर्मितावच्छेदकयावद्धर्मेषु व्युत्पत्तिवैचित्र्येणोत्पत्तेरभेदेनान्वयाङ्गीकारेण
प्रकृते घटत्वे तदभावात् । आद्यत्वं च स्वसमभिव्याहृतपदता-
त्पर्यविषयतावच्छेदकाधिकरणक्षणध्वंसाधिकरणक्षणध्वंसानधिकरणत्वमि-
त्यादिकं नव्यन्यायपरिशीलनवतां सुगमम् । घटत्वस्योत्पत्तिव्यवहारोऽ-
नुपदमेवोपपादयिष्यते । 1 * अत एव — आद्यक्षणावच्छिन्नावस्थाया
उत्पत्तिपदार्थत्वादेव । * सहप्रयोगोपपत्तिरिति — पट उत्पद्यते इति
2
-
,,