2025-01-21 07:37:35 by ambuda-bot
This page has not been fully proofread.
सर: ]
स्वमते उत्पत्तिपदार्थविषयका करग्रन्थ संगमनम्
311
भावप्रकाशः
नष्टस्य पुनर्जन्माभिधाय जननमरणयोरुभयोरवर्जनीयत्वरूपैकधर्मकथ-
नेन द्वयोरेकजातीयता सूचिता । एतत्तात्पर्येणैव भाष्ये उभयोः
परिणामरूपत्वस्थापनं । तेन सिद्धान्ते जायते नश्यतीत्युभयत्राख्यातार्थ
आश्रयत्वमेकरूपमेव । नैयायिकमते तु नश्यतीत्यत्र प्रतियोगित्वमेवा-
ख्यातार्थः न तु आश्रयत्वं ; तथा सति घटादिनाशस्य प्रतियोगिसम -
वायिकारणकपालादिवृत्तितया घटादेर्नाशाश्रयत्वासम्भवेन घटो नश्य-
तीत्यादिप्रयोगानुपपत्तेः । स्पष्टं चेदं व्युत्पत्तिवादे । किञ्च घटः
कपालोऽभवत् चूर्णोऽभवत् इत्यादिशब्दप्रयोगेष्वपि घटादेर्नाशप्रती-
तिरनुभवसिद्धा ; सापि नैयायिकमते स्वरसतो न सङ्गच्छते । अपिच
जायते म्रियते इति व्यवहारतुल्यावेव उत्पद्यते नश्यतीति व्यवहाराविति
सर्वलोकसाक्षिकमेतत् । तत्र जायते इत्यत्र आद्यप्राणशरीरसंयोगः
म्रियते इत्यत्र चरमप्राणशरीरवियोगो विषय इति प्रतिपादयद्भिः
उत्पद्यत इत्यत्राद्यक्षणसम्बन्धः नश्यतीत्यत्र क्षणवियोगविलक्षणो नाशो
विषय इति भाषणमप्ययुक्तम् । किञ्च घटोऽजायत जनिष्यते
जायते इत्यत्राद्यक्षणसम्बन्धेऽतीतानागतवर्तमानकालसम्बन्धो लकारेण
बोध्यते इति तैर्वाच्यम् । तच्च 'जनीप्रादुर्भावे' इत्यादेरनुभवस्य च
दूरतमम् । एतेन साङ्ख्यमतेऽपि वर्तमानावस्थैवोत्पत्तिरभिव्यक्तिर्जनि-
धात्वर्थः । इत्थं च घटो जायते इत्यादौ वर्तमानकालीनवर्तमाना-
वस्थाविषयकबोधस्तन्मते वाच्यः । स च पौनरुक्तयानुभवविरोधपराहत
इति सिद्धम् । एतेन ; ' इदमत्रावधेयम् — सर्वत्रोत्पत्तिः कालनिरूपिता-
धेयत्वमेव । तस्य च यत्र व्यासज्यवृत्तीतरधर्मस्यान्वयितावच्छेदकता
तत्र स्वविशिष्टधर्मवत्त्वसम्बन्धेन तदवच्छिन्नेऽन्वयः । धर्मे स्ववैशिष्ट्यं
स्वावच्छेदकत्वस्व निरूपककालपूर्वकालवृत्तितावच्छेदकत्वसम्बन्धावच्छि -
न्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वोभयसम्बन्धेन । यत्र च