This page has not been fully proofread.

310
 
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
स्योत्पत्तिरुच्यते । ' * ' सैव तदवस्थस्योत्पत्तिः' इति भाष्य-
 
2
 
मपि * तदभिप्रायमेव (येणैव) स्यात् ।
 
आनन्ददायिनी
 
प्रमाणयति – सैवेति । तदभिप्रायमिति । आद्यक्षणावच्छिन्नाभिप्रायं
 
भावप्रकाशः
 
घटत्वे वायुसंयोगाभेदविरहेण पूर्वोक्तदोषाभावेन शतदूषणीतत्वटीको-
क्तदिशा अवस्थाशब्दार्थाङ्गीकारे बाधकविरहात् ।
ननु उत्पत्ति-
राद्यक्षणसम्बन्ध इत्येव युक्तं लाघवात् घटत्वावस्थाया अवयव-
संयोगरूपाया उत्पत्तेश्शतदूषण्यामङ्गीकारेण तत्र घटत्वावस्थाविरहेणा-
वस्थाया उत्पत्तित्वे तदनुपपत्तेश्च । एवं रूपादेरुत्पत्तिव्यवहारानुप-
पत्तिश्च । "सैव तदवस्थस्योत्पत्तिः' इति भाष्ये आद्यक्षणावच्छि-
न्नत्वबोधकपदाभावात्तस्योत्पत्तिपदार्थनिर्वचनपरत्वोक्तिश्चानुचितेति शङ्का-
यामाह – ' * सैव तदवस्थस्येत्यादि । 2 * तदभिप्रायकमिति—-
आद्यक्षणावच्छिन्नावस्थाभिप्रायकमित्यर्थः । जातस्य हि ध्रुवो मृत्युः '
इति गीताभाष्ये - ' तत्र पूर्वावस्थस्य द्रव्यस्य उत्तरावस्थाप्राप्तिर्विनाशः;
सैव तदवस्थस्योत्पत्तिः' इति सूक्तिक्रमः । अत्र तात्पर्यचन्द्रिका -
सैवोत्तरावस्थाप्राप्तिरित्यर्थः । अत्र प्राप्तिशब्देन प्रथमक्षणागमस्य विव-
क्षितत्वादुत्तरक्षणेषूत्पत्तिशब्दयोगाभाव उपपन्न इति सूचितं इति ।
इत्थं च उत्पत्तिराद्यक्षणावच्छिन्नत्वघटितैवेति भाष्यकृतामाशयस्सिद्धः ।
अथचैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
 
इत्यादिश्लोकत्रयेण देहात्मवादमभ्युपेत्य समाधानप्रकरणे ' जातस्य हि
ध्रुवो मृत्युः' इति गीता श्लोके ' ध्रुवं जन्ममृतस्य च ' इत्यनेनाचेतनस्यापि