This page has not been fully proofread.

सरः] त्रिगुणपरीक्षायां सत्कार्यवादनिरासे स्वमतेनोत्पत्तेस्स्वरूपं तदुपपत्तिश्च 309
 
सर्वार्थसिद्धिः
 
रात् । यदा हि तन्त्वादयो व्याप्रियन्ते तदा पट उत्पद्यत
इति व्यवहरन्ति 'आद्यक्षणावच्छिन्नपटत्वावस्थैव वा पट-
आनन्ददायिनी
 
त्यर्थः । कृतेरुत्पत्तित्वे लोकव्यवहारं प्रमाणयति — यदा हीति ।
व्याप्रियन्ते –कृतिविषया भवन्ति । व्यापारावस्थावत्त्वयोरुत्पत्तित्वे भाष्यं
 
भावप्रकाशः
 
साध्यत्वाख्यविषयतावत्त्वेन उत्पन्नत्वव्यवहार उपपद्यत इति भावः ।
ननु अन्यत्र सिद्धान्त्यभ्युपगमानुरोधेन घटतदवस्थयोरुभयोरुत्प-
तिव्यवहारैकरूप्यानुसारेण च कारकव्यापारस्योत्पत्तिशब्दार्थता किं
विशिष्य उत सामान्येन ? आद्ये उत्पत्तिशब्दस्य नानार्थत्वप्रसङ्गः ।
अन्त्ये धनेन धनवानित्यादेखि कारकव्यापारेण घट उत्पन्न इत्यादि-
प्रयोगाणामप्यनुपपत्तिः ? इति शङ्कायां भाष्योक्तमेव परिष्कृत्य समाधत्ते-
' * आद्यक्षणावच्छिन्नेत्यादिना । विद्यावानुत्कृष्टः चन्द्रसदृशं मुखं
सुन्दरं घटः प्रमेयवान् इत्यादौ उद्देश्यत्वविधेयत्वाद्यवच्छेदकयोरभेदवत्
व्युत्पत्तिवैचित्र्येण घट उत्पन्न इत्यादावप्यन्वयितावच्छेदके घटत्वे
उत्पन्नपदार्थतावच्छेदकधर्माभेदो भासते इति तात्पर्येण पटत्वेत्युक्तं; न तु
तस्याप्युत्पत्तिपदशक्यता ; अनन्यलभ्यश्शब्दार्थः इति न्यायविरोधात्
नानार्थत्वप्रसङ्गाच्च । एतेन —
 
आगन्तुका पृथक्सिद्धधर्मोऽवस्थेति कीर्त्यते ।
 
इति शतदूषणीतत्वटी कानुसारेणावस्थापदार्थस्याङ्गीकारे घटवायुसंयो-
गोत्पत्तिकाले घट उत्पद्यते इति व्यवहारापत्तिः वायुसंयोगस्यागन्तु-
कत्वात्; अतः स्वभिन्नत्वस्वसामानाधिकरण्यैतदुभयसम्बन्धेन परि-
माणविशिष्टपारेमाणमेवावस्थापदार्थो वाच्य इति केषाञ्चित्प्रयासो व्यर्थः।