This page has not been fully proofread.

सरः]
 
सत्कार्यवादनिरासे पररीत्यैव स्वपक्षे प्रतिबन्दीनिस्तारः
 
307
 
तत्वमुक्ताकलापः
 
नैवं कृतौ नः ॥ २४ ॥
 
सर्वार्थसिद्धिः
 
उत्तरत्र कारक नैष्फल्यापसिद्धान्तौ । व्यक्तिरपि कृता व्यक्ता
वेत्युभयथाऽप्यनवस्था तत्राह — नैवमिति । कृतिर्हि कारकाणां
व्यापारः । स च आगन्तुकस्वकारणव्यापारेण जन्यते । सोऽपि
तथेति सिद्धानवस्थैषा । सा च सर्वसम्मता न दो ( पकृत् ) पः ।
त्वयाऽप्यभि (त्वयाऽपि हि ) व्यञ्जकव्यापारो व्यञ्जकान्तरव्यापार-
व्यङ्गय इति वाच्यम् । ननु व्यक्तिर्न व्यज्यते न क्रियते
च । अव्यक्तैव नित्यं स्वयंव्यक्तैव वा कार्याणां व्यक्ति-
स्स्यात् ? न स्यात् तदर्थकारकव्यापारवैयर्थ्यप्रसङ्गात् ।
कार्याणां नित्यव्यक्तिप्रसङ्गाच्च । ननूत्पत्तिर्नाम सत्तासमवायो
वा स्वकारकसमवायो वा । स च नित्यः । न तदर्थ-
(र्थः का) व कारकव्यापारः कृतिरिति समा (नं । ) ना चर्चा ? न ;
आनन्ददायिनी
 
मूलक्षयकरत्वाभावात् बीजाङ्कुरस्थल इव न दोष इति परिहरति-
कृतिहीति । अभिव्यञ्जकव्यापारे त्वयाऽपि दृश्यानवस्था वक्तव्ये
(स्थाङ्गीकार्ये) त्याह-त्वयापीति । ननु अभिव्यक्युत्पत्तिपक्षयोस्तुल्य-
त्वेऽभि (त्वादभिव्यक्तिपक्षे कः प्रद्वेषः इति चेन्न ; अभिव्यक्तिवादिनस्तव
सर्वनित्यत्वाङ्गीकारादीदृशावस्थयाऽप्यभिव्यक्तिकादाचित्कत्वादिसमर्थनं
दुर्घटं ( मत्त्वा) आगन्त्ववस्थावादिनस्तादृशव्यापाराङ्गीकारात्सुलभमि-
त्युत्पत्तिपक्ष एव श्रेयानिति द्रष्ट (मन्त) व्यम् । नन्वभिव्यक्तेर्नाभि-
व्यक्तयन्तरमपेक्षितं ; तथा च नानवस्थेति त्वदुक्तप्रतिबन्धवकाशो
नेति शङ्कते – नन्विति । ननु परस्यापि कारकव्यापारवैयर्थ्यामिति प्रति-
बन्दीमाशङ्कते —— नन्विति । सत्ता-सत्ताजातिः । चर्चा–विचारः ।
 
20*