This page has not been fully proofread.

306
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
नच कृतामात्थ
 
तत्वमुक्ताकलापः
 
सर्वार्थसिद्धिः
 
कार्यत्वपक्षे अपसिद्धान्तं असदकरणादिति हेतुविरोधं चाभि-
प्रेत्याह — नचेति । ननु कार्यस्य कृतिस्तावत् न कार्यस्वरूपमेव ।
कार्यं क्रियते घटः क्रियते इति सामान्यतो विशेष ( पाच्च) तश्च
सह प्रयोगात् । अतिरिक्ता च सा । तथा सति कार्यव्यक्तौ
कः प्रद्वेषः ? कृतिरपि कृता वा व्यक्ता वा ? पूर्वत्रानवस्था ।
 
आनन्ददायिनी
 
हेतुविरोधं चेति — सतः कृतत्वायोगात् कृतत्वे (वा) प्रागसत्त्वनियमात्
असदकरणादिति हेतुविरोध इत्यर्थः । कार्यव्यक्तौ —कार्यस्याभि-
व्यक्तौ । कः प्रद्वेषः —— कृतितुल्यत्वादित्यर्थः । तुल्यतामेवोपपादयति–
कृतिरपीति । कृतिर्हि कृतैव । नचानवस्था; सिद्धानवस्थारूपतया
 
I
 
भावप्रकाशः
 
नित्यानित्योभयरूपत्वस्योक्ततया नित्यत्वेऽपि सर्वकार्येष्वनित्यरूपेण
क्रमस्संभवतीति योगभाष्यो क्ताने कान्तवादावलम्बनेन दूषणोद्धारः कृत
एवेति चेत्; कस्याप्यनित्यरूपस्य कारकव्यापारात्पूर्वमतीतावस्थया -
प्यसत्त्वानङ्गीकारे क्रमः कारकव्यापारसाफल्यं च न संभवति ।

अङ्गीकारे च तत्र सत्कार्यवादक्षतिरिति समाधानमाचार्यैरुक्तप्रायम् ।
' तद्भेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत ' ' वाचारम्भणं
विकारो नामधेयं मृत्तिकेत्येव सत्यं' इत्यादिश्रुतयः वस्तुसामान्यस्य