2025-01-21 07:37:32 by ambuda-bot
This page has not been fully proofread.
सरः ] त्रिगुणपरीक्षायां सत्कार्यवादनिरासे कारकापेक्षाऽयोगः
तत्वमुक्ताकलापः
व्यक्तिर्व्यक्तानवस्थां भजति
सर्वार्थसिद्धिः
305
'* उत्तरत्र अर्धजरतीयस्सत्कार्यवादः । व्यक्तेरपि व्यक्तयर्थं
कारकापेक्षेति चेत् तत्रानवस्थाप्रसङ्गमाह - व्यक्तिरिति । व्यक्तेः
भावप्रकाशः
'* उत्तरत्रेत्यादि - एतत्पक्षे अपसिद्धान्तः असदकरणादित्यादि-
हेतुविरोधश्चानुपदमेव वक्ष्यते । योगभाष्यव्याख्याने तत्ववैशारद्यां
वाचस्पतिना योगवार्तिके विज्ञानभिक्षुणा च असत्कार्यवादप्रसङ्ग-
भयेन धर्मलक्षणावस्थानां सर्वदासत्त्वरूपनित्यत्वस्य सिद्धान्तितत्वेन
अभिव्यक्तेः प्रागसत्त्वाङ्गीकारेऽपसिद्धान्त इत्यर्थः । असदकरणादिति
हेतुविरोधः स्फुटः । योगवार्तिके : सत एवाभिव्यक्तिरिति सत्कार्य-
वादिनो नियमः । उत्पत्तेरुत्पत्तिरिवाभिव्यक्तेरभिव्यक्तिरपि स्वरूपमेव ।
अभिव्यक्तेश्चाभिव्यक्तयन्तरास्वीकारेण तस्या असत्या एवोत्पादेऽपि
न क्षतिः' इति विज्ञानभिक्षूक्तावपि अभिव्यक्तेर्वर्तमानावस्थया प्राग-
सत्त्रमेव विवक्षितं न तु अत्यन्तासत्त्वं । तेनैव सांख्यप्रवचनभाष्ये
अभिव्यक्तेः प्राक्सत्त्वमसत्त्वं वेति विकल्प्य सर्वकार्याणां सर्वदा-
सत्त्वस्य सिद्धान्तितत्वात्; योगवार्तिके घटादेरनागतातीतावस्थे
एवाभिव्यक्तेरनागतातीतावस्थे नातिरिक्ते इति अनागतातीतावस्थावत्त्व-
रूपानित्यत्वस्य घटादौ अभिव्यक्तौ चाभ्युपगतत्वात् । अत आचार्य.
विकल्पेऽभिव्यक्तेर्नित्यत्त्रपक्ष एव विज्ञानभिक्षुसंगत इति तत्पक्षे कारक-
व्यापारस्य वैफल्यदोषो बोध्यः । ननु परिणामसूत्रे विज्ञानभिक्षुणा -
स्यादेतत् लक्षणाभिव्यक्तेरपि नित्यत्वात् कथं क्रमिकत्वमित्याशङ्कय
SARVARTHA.
i
20