2025-01-21 07:37:32 by ambuda-bot
This page has not been fully proofread.
304
सव्याख्यसैर्वार्थसिद्धिसहिततत्वमुक्ता कलावे
[ जडद्रव्य
भावप्रकाशः
वस्थया प्रागसत्तया तन्निवृत्तये कारकव्यापारसाफल्योक्तिरपि हेया ।
तन्मते अवस्थानां परस्पराभावरूपतया वर्तमानावस्थया प्रागसत्त्व-
मतीतावस्थारूपं तन्निवृत्तिश्च वर्तमानावस्थारूपैत्रेति तस्यास्सदा सत्त्वे
कारकव्यापारखैफल्यस्यापरिहार्यत्वात् । एवं च योगवार्तिके तेनैव 'अती-
तानागतावस्थावत्त्वस्वरूपमनित्यत्वं घटादावभिव्यक्तौ चेप्यत एव ।
आद्यन्तयोः कार्यस्यात्यन्तासत्त्वप्रतिषेधाय ध्वंसादिप्रतियोगित्वस्यैव प्रति-
षेधात् । अतीतानागतावस्थयोः ध्वंसप्रागभावस्थलाभिषेकमात्र एवा-
स्माकं विशेषादिति । एवं स्वीयसांख्यभाष्ये च विशेषप्रदर्शनमपि
अभिव्यक्तस्सर्वदा सत्त्वाङ्गीकारेऽकिञ्चित्करमेव । यद्यपि सिद्धान्तवत्
सांख्यैरपि निरन्वयविनाशानङ्गीकारेण प्रागभावप्रध्वंसौ भावरूपावेव ;
अथाऽपि धर्मांशेऽपि सत्कार्यवादिभ्यस्सांख्येभ्यः धर्म्यंशमात्रे सत्कार्य-
वादिनां सिद्धान्तिनामयमेव विशेषः धर्मितत्प्रागभावतन्नाशा ः अत्य-
न्तविभिन्नरूपास्सिद्धान्ते । सांख्यमते तु वर्तमानावस्थाया अतीता-
वस्थाकालेऽपि शक्तयात्मनाऽवस्थानाङ्गीकारेण पूर्वापरधर्मिणामिव तादृ-
शावस्थानामप्यभेदस्य स्वीकार्यतया अतीतावस्थारूपतया अभिन्नधर्म-
रूपास्ते धर्म्यभिन्ना वा इत्यादिसरणिरभ्युपेया । एवं च वर्तमानावस्था -
भावरूपाया अतीतावस्थायाः प्रतियोगिभूतवर्तमानाव स्थारूपत्वाङ्गीकारे
वर्तमानावस्थायास्तत्क्षणे धर्मरूपेण सत्त्वे च ---
समानदेशकालत्वमभावप्रतियोगिनोः ।
सहते काप्यगत्यैव न तथाऽत्रान्यथा गतेः ॥
इति पूर्वोक्तदोषोऽपीति । एवमेतत्पक्षे—
अपि चाशेषनित्यत्वे पौर्वापर्यं न कुत्रचित् ।
इत्यादिना पूर्वोक्ता अपि दोषा अनुसन्धेयाः । धर्माणां धर्म्यभेदो
निरस्त एवेति ।