This page has not been fully proofread.

302
 
सव्याख्यसर्वार्थासिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
सर्वार्थसिद्धिः
 
भवतु वा जनिशब्दो व्यक्तिपरः-
 
1
 
2
 
* न व्यक्तिरूपलब्धिस्ते दृष्टादृष्टदशान्वयात् ।
अथोपलब्धियोग्यत्वं न तदव्यापकत्वतः ॥
 
* सत्स्वलक्षणपूर्तिश्चेदभिव्यक्तिः तदप्यसत् ।
साऽपि नः प्राक्तनी नो चेत् न सिध्येद्धेतुरप्यसन् ॥
आनन्ददायिनी
 
उत्पत्तिरिति न ते विवक्षित सिद्धिरित्याह — भवतु वेति । अभिव्यक्तिः
किमुपलब्धिरेव उत तद्योग्यत्वं नाद्य इत्याह--दृष्टादृष्टदशान्वयादिति ।
उत्पत्तिरभिव्यक्तिश्चेत् सोपलब्धिरिति घटस्य यावद्विनाशमभिव्यक्ति-
मत्त्वात् दृष्टत्वादृष्टत्वरूपदशान्वयो न स्यात् । ऊत्पत्त्यनन्तरं विद्यमान एव
घटः कदाचिदृश्यते कदाचिन्न दृश्यते चेति भावः । न द्वितीय इत्याह-
अथेति । अथेन्द्रियाणामुत्पत्तिरस्ति; तन्न स्यात्; उपलब्धियोग्यत्वरूपा-
भिव्यक्तेरभावादित्यर्थः । सत्स्वलक्षणेति-सतो विद्यमानस्य स्वलक्षणस्य
वस्तुस्वरूपस्य पूर्णता अभिव्यक्तिः । सा कारकव्यापाराद्भवतीत्यर्थः ।
पूर्तिरपि पूर्वमस्ति नवेति विकल्प्य आद्यं दूषयति — साऽपि प्राक्तनीति ।
कारकव्यापारवैयर्थ्यमित्यर्थः । द्वितीयं दूषयति — नो चेदिति । असत-
स्सर्वदा असत्वात् पूर्तिर्न सिध्येदित्यर्थः । हेतुरप्यसन्निति कार्य-
पूर्वसत्त्वसाधकस्सत्स्वलक्षणपूर्तिरूपाभिव्यक्तौ व्यभिचारादसन्नित्यर्थः ।
 
भावप्रकाश:
 
निदानं न पश्यामः इति भावेन दूषयति ।
 
2
 
1 * न व्यक्तिरित्यादिना । व्यक्तिः — अभिव्यक्तिः । सत्स्व-
लक्षणपूर्तिरिति । सतां कारकव्यापारात्पूर्वमपि शक्तयात्मना
 
-