2025-01-21 07:37:32 by ambuda-bot
This page has not been fully proofread.
सरः ] त्रिगुणपरीक्षायां कार्यं उपादानतादात्म्यसाधनानुपपत्तिः जनिपदार्थविमर्शश्च 301
सर्वार्थसिद्धिः
स्यादिति प्रसज्येत । गुरुत्वान्तरकार्यादर्शनं तु द्रव्यान्तरोत्पत्तिं
प्रतिरुन्ध्यात् न त्ववस्थातद्वतोरभेदं विदधीत । ननु जनिरपि
व्यक्तिरेव । ' जनीप्रादुर्भावे' इति धात्वर्थपाठात् ? न;
जनिव्यक्ति शब्दयोरर्थभेदेनैव निरूढेः । प्रादुर्भावपाठोऽप्युत्पत्ति-
परस्स्यात् । निर्वर्त्यप्राप्यभेदसिद्धेश्च । जन्यं हि निर्वर्त्यम् ! व्यङ्गथं
तु प्राप्यं । अभूततद्भावादिषु च प्रागसत्त्वमनुस्मृतमेव ।
आनन्ददायिनी
गुरुत्वान्तरेति । द्रव्यस्यैव गुरुत्वाश्रयत्वादिति भावः । ननूत्पत्ति-
वादिभिरपि अभिव्यक्तिरेव नामान्तरेणाभ्युपगता । अन्यथा पद-
गताविति शाब्दस्मृतिविरोधः । गतिर्हि ज्ञानमभिव्यक्तिः; अतस्त-
दूषणं स्वमतदूतषणमेव स्यादिति शङ्कते - नन्विति । परिहरति-
पाठोऽपीति । धातुपाठोऽपीत्यर्थः । ननु जन्मनोऽभिव्यक्तित्वे निर्वर्त्यं
च विकार्यं च प्राप्यं चेति भेदेन कथनमनुपपन्नं स्यादित्याह-
निर्वत्येति । ननु जनीप्रादुर्भावे इत्यत्र प्रादुर्भावशब्दः कथमि-
त्यत्राह—अभूतेति । पूर्वमविद्यमानं यत् तद्भावः तादृशा-
वस्थावत्त्वमित्यर्थः । तथाच असत उत्पत्तिस्मृतिबलाल्लक्षणेति भावः ।
अस्तु वा प्रादुर्भावशब्दो मुख्यः ; तथाऽपि तस्यासत्त्वात् असत
भावप्रकाशः
व्यक्तिरिति सांख्यनिष्कर्षः तथाऽपि वर्तमानावस्थाया अभिव्यक्ति-
;
हेतुत्वमात्रमेव । तस्या अभिव्यक्तिशब्दमुख्यार्थत्वं तु न सर्वसंप्रति-
पनम् ; अमुख्ये सांख्यव्यवहारे ।