This page has not been fully proofread.

300
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 

 
सर्वार्थसिद्धिः
 
समवायस्यानभ्युपगमात् । अन्यतरस्याद्रव्यत्वे तु संयोगायो -
गाच्च । न चतुर्थः प्रागेव दूषितत्वात् । न पञ्चमः तस्यैव साध्य-
त्वात् । न षष्ठः अभेदव्याप्यस्य कस्यचिदन्यस्य त्वयाऽप्यदर्श-
नात् इति । यच्चैतत् — पटस्तन्त्वात्मकः तत्संयोगतदप्राप्तिरहित-
त्वात् । तादात्म्याभावे हि कुण्डवदरयोरिव संयोगो वा स्यात्
हिमवद्विन्ध्ययोरिवाप्राप्तिर्वा ! तदुभयमिह निवर्तमानं तादात्म्य-
विरहमपि निवर्तयतीति । तदपि मन्दम् ; तादात्म्यविरहेsपि
अन्यतरस्याद्रव्यत्वात्संयोगाभावः तद्धर्मस्वभावत्वादेवाप्राप्ति-
परिहार इत्यन्यथासिद्धस्यासाधकत्वात् । अन्यथा तादात्म्य-
भाव इव भेदसद्भावेऽपि घटपटयोरिव धर्मधर्मिभावो न
आनन्ददायिनी
 
समवायस्येति । तस्यैव साध्यत्वादिति - साध्याविशेषो दोष इत्यर्थः ।
तदुक्तमनुमानान्तरं दूषयति-- यच्चैतदित्यादिना । तत्संयोगेति
तत्संयोगरहितत्वे सति तदप्राप्तिरहितत्वादित्यर्थः । तत्संयोगरहितत्वादि-
त्युक्तौ हिमवद्विन्ध्ययोर्व्यभिचारः तदप्राप्ति रहितत्वादित्युक्तौ
कुण्डबदरयोर्व्यभिचारः इति विशिष्टहेतुः । व्यतिरेकव्याप्तिं दर्शयति-
तादात्म्याभावे हीति । अप्रयोजकतामाह — तादात्म्यविरहे ऽपीति ।
इष्टापत्त्यादिना अवस्थातद्वतोर्भेदस्यैवोपपादनादिति भावः । इतश्च न
पटस्तन्तुभ्यो भिद्यते गुरुत्वान्तरकार्यादर्शनादित्यनुमानान्तरं दूषयति-
 
भावप्रकाशः
 
इति च कुमारिलेन सांख्यस्य भेदाभेदवादित्वाभिधानाच्चेति भावः ।
भेदाभेदस्य सम्बन्धता निरसिष्यते । यद्यपि वर्तमानावस्थैवाभि-