2025-01-21 07:37:29 by ambuda-bot
This page has not been fully proofread.
298
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
यदपि तदुपादेयत्वात्तदभिन्न इति एतदपि पूर्ववदेव । तदु-
पादेयत्वं च तज्जन्यत्वमात्रं वा तद्विकार्यत्वं वा तत्सम्बन्धित्वं
वा तद्धर्मत्वं वा तदभिन्नत्वं वा अन्यद्वा यत्किञ्चित् इति ? नाद्यः;
निमित्तैरप्यभेदप्रसङ्गात् । न द्वितीयः; तद्धर्मत्वहेतूक्तदोषादेव ।
उभयत्र पटावस्था तन्त्वात्मा न भवति तन्तुभ्यो भिन्नत्वात्
घटवत् इति प्रतिप्रयोगस्य शक्यत्वाच्च । * इष्टोऽपि हि त्वयाऽपि
आनन्ददायिनी
।
तथाच असाधारणानैकान्तिकत्वमिति भावः । 'पटस्तन्तुभ्योऽभिन्नः
तदुपादेयत्वात् यदुक्तसाध्यं न तदुक्तसाधनं न यथा घटः
इत्यनुमानान्तरं दूषयति-यदपीति । अभेदस्तादात्म्यं । पूर्ववदेवेति-
व्याप्यत्वासिद्ध्यादिदूषणदुष्टमित्यर्थः । दूषणान्तरं च वक्तुं विकल्प -
यति—तदुपादेयत्वमिति । तत्सम्बन्धित्वं वेति —संयोगसमवायान्यतर-
वत्त्वमित्यर्थः । निमित्तैरिति तत्र व्यभिचार इति भावः । तद्ध-
ः।
र्मत्वहेतूक्तेति दृष्टान्तासिद्ध्यादिदोषादेरित्यर्थः । उभयत्र — विकल्प
द्वयेऽपि । हेत्वसिद्धिं परिहरति — इष्टोऽपीति । भवता कारणे सत्त्वं
भावप्रकाशः
- ·
* इष्टोऽपि हीत्यादि —यथोक्तं तत्वकौमुद्याम् - (९)' स्वात्मनि
क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाव्यवस्थाभेदाश्च नैकान्तिकं भेदं साधयितु
मर्हन्ति । एकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषामविरोधात् '
इत्युपक्रम्य ' इह तन्तुषु पटः इति व्यपदेशोऽपि इह वने तिलका
इत्युपपन्न इति' इति(१०) ' कार्याणामभेदेऽपि कथञ्चिद्भेदविवक्षयाऽऽ-
श्रयाश्रयिभावः ! यथेह वने तिलका इत्युक्तः' इति च ।