2025-01-21 07:37:29 by ambuda-bot
This page has not been fully proofread.
सरः ]
त्रिगुणपरीक्षायां सत्कार्यवाद तृतीयतुरीयहेत्वोर्निरासः
297
।
सर्वार्थसिद्धिः
।
नाशप्रसङ्गात् । सर्वत्र वा अतिप्रसङ्गात् । दूषणेषु च दूष्यं वर्तते
न वा ? पूर्वत्र दूषणत्वादेरिव तद्वृत्तेस्तेन दूषणायोगः । उत्तरत्र
तद्वृत्तिरहितस्य घटादेरिव तद्दृष्यत्वं न स्यात् । अथैतेषु यथाद-
र्शनं व्यवस्थेष्यते ; प्रकृतेऽपि तथा स्यात् । एवं निमित्तादिप्रति-
बन्धैव कार्यस्य कारणभावस्सर्वत्र सर्वसम्भवप्रसङ्गश्च निरस्तः ।
यानि च सांख्यानां अवस्थातद्वतोरभेदसाधकानि तेषु यदेतत्;-
पटस्तन्तुभ्यो न भिद्यते तद्धर्मत्वादिति; अत्र तावत्प्रतिज्ञा-
हेतुविरोधः स्पष्टः । दृष्टान्ताभावेन व्याप्तिश्च नास्ति । यद्यतो
भिद्यते न तत्तस्य धर्म इति व्यतिरेकव्याप्तिरस्तीति चेन्न;
सपक्षेभ्यस्तन्तुभ्योऽपि व्यावृत्तत्वेन केवलव्यतिरेकित्वायोगात् ।
आनन्ददायिनी
त्तत्वात् प्राप्तरजतनाशकत्वं दृष्टं नाप्राप्तमिति प्रतिबन्द्यन्तरमित्यर्थः ।
केचित्तु - साङ्ख्यमत एव भ्रमस्थले रजतस्य शुक्तावविद्यमानस्य दोषादि-
घटितसाग्रयाऽभिव्यक्तिरिति वक्तव्यम्, अन्यथाख्यात्यङ्गकारे तस्या
नित्यत्वप्रसङ्गेनानिर्मोक्षप्रसङ्गात् । तथाच तस्य भ्रमत्वमधिष्ठान साक्षात्कार-
मात्रस्य निवर्त्यत्वात् । निवृत्तिश्च तिरोधानमेव । तथाच प्राप्तनिवर्तकत्वे
शुक्तौ रजतसत्त्वप्रसङ्गः । तथाऽङ्गीकारे च सर्वं सर्वत्र वर्तेत; सर्वत्र
भ्रमसम्भवात् । तथाच अप्राप्तमेव रजतम (मित्य)भिव्यक्तं तिरोहितमिति
वाच्यं; तदा शुक्तिरूप्यतत्तुल्यता प्रसजेत्; तथा (एवं) च आपण-
स्थरजतस्यापि (सत्यरूप्यस्य शुक्तिभावस्स्यान्निवर्तनामिति न्यायेन)
शुक्तिरूप्यवन्निवृत्तिस्स्यादित्यर्थः । प्रतिबन्द्यन्तरमाह — दूषणेष्विति ।
अनेन सर्वसम्भवाभावादिति विवक्षितहेतुश्च दूषित इत्याह--प्रतिज्ञाहेतु-
विरोध इति । धर्मत्वस्य भेदघटितत्वादिति भावः । सपक्षेभ्य इति -