2025-01-21 07:37:29 by ambuda-bot
This page has not been fully proofread.
296
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
तन्निमित्तादिनीतेः
सर्वार्थसिद्धिः
स्वव्याघातं चाभिप्रेत्याह - तन्निमित्तेति । निमित्तादीनां का-
र्योत्पादनशक्तिरस्ति वा न वा ? न चेत्; कथं तन्निमित्तत्वम् ?
अन्येषां वा कथमतन्निमित्तत्वम् ? अस्ति चेत्; सा किं कार्यस्य
सूक्ष्मावस्था अन्या वा ? न पूर्वः ? अपसिद्धान्तात् । उपादाने हि
तत्सत्त्वमङ्गीकरोषि ! अन्यथा प्रकृतेरिवात्मनोऽपि प्रपञ्चगर्भत्वेन
प्रकृतित्वप्रसङ्गात् । आत्मा खलु अयस्कान्तवन्निर्व्यापारोऽपि
सन्निधिमात्रेण निमित्तमिष्यते । तथा सति निमित्तोपादान-
वैषम्यविलयाच्च । नाशकेषु च नाश्यवृत्तिरस्ति वा न वा ? अस्ति
चेत्; वह्नौ तूलवद्विरोधः । नचेत् कथं तदेव तस्य नाशकम् ?
न तद्वृत्तिस्तेन नाश्यते ! शुक्तावविद्यमानस्य रूप्यस्य तया
आनन्ददायिनी
कार्यगर्भत्वस्य ।
अन्येषां—कारणाद्भिन्नानामित्यर्थः । सिद्धान्ता-
तिक्रमे त्वत्पक्षे शक्तिमत्त्वाविशेषादिदं निमित्तमेव नोपादानमिति
व्यवस्था न स्यादिति दूषणे सत्येव दूषणान्तरं वक्तुं विकल्पयति-
सा किमिति । दूषयति- अन्यथेति । आत्मनो निमित्तत्वं नास्तीत्यत
आह— आत्मा खल्विति । किञ्च नाशकेषु नाश्यमस्ति नवेति
विकल्पमुखेन प्रतिबन्द्यन्तरमाह — नाश केष्विति । वह्नौ नाशके यथा
तूलं विरुद्धं तथा नाशकान्तरेऽपि नाश्यं विरुद्धमित्यर्थः । कथं
तदेवेति—वह्निरेव तूलस्य नाशकः न जलमिति नियमः कथ-
मित्यर्थः । परापादितातिप्रसङ्गमिहापि दर्शयति — तद्वृत्तीति ।
शुक्ताविति — अनिर्वचनीयरजतपक्षेऽपि अधिष्ठानतया रजतनाशनिमि-