2025-01-21 07:37:27 by ambuda-bot
This page has not been fully proofread.
294
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
मृत्पिण्डादिषु दुस्साधं शास्त्रमप्यनिदम्परम् ॥
अप्राप्तावव्यवस्थोक्ता प्राप्तावपि तवापतेत् ।
व्यक्तिवादोऽत एवेत्यप्ययुक्तं तन्निरासतः ॥
सत्वादिगुणभूयिष्ठभागभेदाव्यवस्थितेः ।
त्रिगुणद्रव्यसम्बन्धः प्रवाहानादिरात्मनाम् ॥
आनन्ददायिनी
स्सृजते गृह्णते च ' ' ग्रसते च चराचरम्' इत्यादिशास्त्राणां का ग-
तिरित्यत्राह — शास्त्रमपीति । तत्राप्यवस्थाविशेषोत्पत्तिलयावादायोपप-
त्तिरि(पपन्नमि)ति भावः । नन्वप्राप्तानां जनकत्वे अतिप्रसङ्गात्
प्राप्तस्य जनकत्वायोगादकामेनाप्यभिव्यक्तिर्वक्तव्या; दोषाश्च यथा-
कथंचित्परिहार्या इत्याशङ्कते —— प्राप्ताविति । अत एव तव व्यक्ती-
त्यन्वयः । अभिव्यक्तिं प्राप्याप्राप्य वा करोतीति विकल्पक्षोभस्य
समानत्वादित्याह — इत्यप्ययुक्तामिति । ननु भवन्मते प्रकृतिसम्ब-
न्धोऽनादिरित्युच्यते स च कर्मसाध्य इत्यपि; तद्वत् कार्याणां पूर्वसत्त्वेऽपि
साध्यत्वमस्त्वित्यत आह–सत्त्वादिगुणभूयिष्टेति । सत्वरजस्तमोभूयिष्ठ-
भागानामंशानां देहादिरूपेण परिणतानां अव्यवस्थितेः—अनियतत्वात्
सम्बन्धस्याप्येकत्वाभावेन भिन्नभिन्नत्वात् बीजाङ्कुरन्यायेन पूर्वपूर्वेषां
प्रकृतिसम्बन्धानामुत्पत्तिरित्यर्थः । नन्वेवमनादित्वोक्तिः कथम् ?
इत्यत्राह -- प्रवाहानादिरिति । ननु जीवानां ज्ञानं संसारदशायां
तिरोहितमितीष्यते । तिरोधानं चास्य तत्प्रागभाव एव । स चानादिः ।
स च कर्मणेति कर्मकृतत्वं कथम् ? इत्याशङ्कय प्रवाहानादि (तया)
संविद्विकाससङ्कोचरूपसंतन्यमानकादाचित्कावस्थारूपत्वात्प्रागभावस्य क-