2025-01-21 07:37:27 by ambuda-bot
This page has not been fully proofread.
सरः] सर्वानत्यत्वे पौर्वापर्यासंभवः स्वप्रवृत्तिवैफल्यं शास्त्रानुत्थितिरित्यादि 293
सर्वार्थसिद्धिः
साङ्ख्यचार्वाकयोस्स्यातां साध्यसाधनबाधनात् ।
अयोग्यत्वं तिरोधानं योग्यत्वं व्यक्तिरित्यपि ॥
तन्नित्यानित्यताभ्यां ते विवक्षितविघातकृत् ।
इन्द्रियप्रतिघातेन भागैर्भाग न्तरावृतिः ॥
यथाऽन्यत्र तथा नात्र कादाचित्कदशात्यजः ।
असम्भवनिरस्तं च ग्रसनोद्भूसनादिकम् ।
आनन्ददायिनी
(अनुमाना) पेक्षया पश्चात् स्थितिः - अप्रामाण्यमिति यावत् । केचित्तु
अनुत्थितिः —– व्यर्थप्रवृत्त्यनुसरणमित्यर्थ इत्याहुः । साङ्ख्य चार्वाकयो-
-
रित्यत्र चार्वाकग्रहणं दृष्टान्तार्थम् । यथा चार्वाकमते कार्यकारण
भावस्य साधनाभावात् प्रवृत्त्यादिवैफल्यं शास्त्रादेरप्रामाण्यं च तथा
साङ्ख्यस्यापि स्यादित्यर्थः । अयोग्यत्वमिति -- प्रत्यक्षायोग्यत्वं तद्यो-
ग्यत्वं चेत्यर्थः । विवक्षितविघातकृदिति अनभिव्यक्तस्य कदाचिद-
भिव्यक्तयर्थं प्रवृत्त्यादिसाफल्यसमर्थनभङ्गकृदित्यर्थः । ननु परेषां यस्ति-
रोधानपदार्थस्तदभावश्च तावेवास्माकमपि स्त इत्यत्राह - इन्द्रियेति । इन्द्रि
यप्रतिघातः — इन्द्रियप्रवृत्तिनिरोधः । अन्यत्र — अन्येषां पक्षे । अत्र-
त्वत्पक्षे । कादाचित्केति – इन्द्रियप्रवृत्तेर्नित्यत्वे तत्प्रतिघातायोगात्
तत्प्रतिघाताङ्गीकारे प्रतिघातस्य नित्यतयाऽनभिव्यक्तस्य कदाचिद-
भिव्यक्तययोगादित्यर्थः । ननु दन्तिकपित्थादिग्रसनोद्गसनादिवन्मृदा-
दिभिर्घटादेर्यसनोद्गसनादिकं तिरोध्यभिव्यक्तिशब्दार्थौ भवत इत्यत
आह – असम्भवनिरस्तं चेति । मृत्पिण्डापेक्षयाऽधिकपरिमाणस्य
घटादेः मृदादिभिः ग्रसनोद्गसनासम्भवादित्यर्थः । ननु " यथोर्णनाभ-