This page has not been fully proofread.

292
 
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
मिथश्चाभिभवाद्युक्तिर्गुणेष्वेवमनर्थिका ।
समानदेशकालत्वमभावप्रतियोगिनोः ॥
 
सहन्ते क्वाप्यगत्यैव न तथास्त्रान्यथा गतेः ।
अपिचाशेषनित्यत्वे पौर्वापर्यं न कुत्रचित् ॥
व्यक्तिभोगापवर्गादिसाध्यतोक्तिरतो मुधा ।
स्वप्रवृत्त्यादिनैष्फल्यं शास्त्रादेरप्यनुत्थितिः ॥
आनन्ददायिनी
 
[जडद्रव्य
 
वृत्तीरिति सृष्ट्यर्थमन्योन्याभिभवोक्तिर्व्यर्था अभिभवस्य नित्यत्वेन
स्वतस्सिद्धत्वादित्यर्थः । केचित्तु-तिरोधेर्दुर्वचत्वमेवाह-तिरोधिं तन्नि-
वृत्तिं चेति । भावाभावयोरेकत्र वृत्त्यसम्भवा (वृत्त्ययोगा ) दिति भावः ।
एवं च सति दूषणान्तरं च भवतीत्याह - मिथश्चेतीत्याहु । भावा-

भावयोरेकदैकत्र वृत्तिस्संयोगतदभावयोरिवोपलब्ध्यन्यथानुपपत्तया सा-
धयितव्या । तथाच तिरोधितदभावयोर्नित्यत्वेऽपि तिरोधेर्न दुर्वचत्व-
मित्यत्राह — समानदेशेति । यद्वा तिरोधितदभावयोर्नित्यत्वाङ्गीकारे
भावाभावात्मकयोस्तयोस्समानदेशकालत्वं विरुद्धमङ्गीकरणीयमिति दूष-
णान्तरमाह–समानेति । असदुत्पत्त्यङ्गीकारेणापि निर्वाहसम्भवान्नान्यथा
गतिरिति भावः । किञ्चाशेषनित्यत्वे पौर्वापर्याभावात्तद्व्यवहारोच्छेदः ;
अभिव्यक्तयादीनां साध्यतोक्तिश्चार्थशून्येत्याह- अपिचेति । साध्य
साधनभावस्य सर्वनित्यत्वमते बाधात् प्रवृत्तिनिवृत्तिवैघट्यं शास्त्रा-
प्रामाण्यं च स्याच्चार्वाकस्येवेत्याह — स्वप्रवृत्तीति । प्रथम आदिशब्दो
निवृत्तिपरः । अपगोरणादेर्नित्यस्य निवृत्त्या परिहारसम्भवादिति भाव ।
कृप्यादेर्ज्योतिष्टोमाद्यपूर्वस्य प्रयत्नसाध्यत्वासम्भवाच्च साध्यताबोधका-
नुमानादिकं द्वितीयस्यार्थः । अनुत्थितिः -- अनन्तरस्थिति । प्रमाणा-