This page has not been fully proofread.

सरः]
 
अभिव्यक्तेः साध्यत्वानुपपत्तिः अपसिद्धान्तः तिरोधेर्दुवचत्वं च
 
291
 
सर्वार्थसिद्धिः
 
तयोरपि भवत्पक्षे नित्यत्वात्साध्यता कथम् ? ।
आवारकं च नित्यं चेत् नित्यमावरणं भवेत् ॥
अन्यथा त्वपसिद्धान्तः तत्तिरोधिश्च दुर्वचः ।
तिरोधिं तन्निवृत्तिं च नानित्यौ तस्य मन्यसे ! !
आनन्ददायिनी
 
मस्तीत्यर्थः । तत्तारतम्याङ्गीकारेपि तदादाय न व्यवस्था संभवतीत्याह-
तयोरपीति । अभिव्यक्तयावरणयोरित्यर्थः । आवरणतद्वारणयोरित्यन्ये ।
सर्वनित्यत्ववादिनः आवरणनिवारणमेव न स्यात् ; दूरे तत्तारतम्यमिति
भावः । आवरणतन्निवृत्त्योर्यौगपद्ये विरोधमप्याह—आवारकं चेति ।
अन्यथा— अनित्यत्वे सर्वनित्यत्ववादिनः कादाचित्कसत्त्वप्रसङ्गेन अप -
सिद्धान्त इत्यर्थः । तत्तिरोधिश्वेति —–तिरोधानं नाम ज्ञानप्रतिबन्धो
वा तत्सामग्रीरूपसन्निकर्षप्रतिबन्धो वा ? उभयत्र ज्ञानसन्निकर्षौ स्तो न
वा ? आद्ये विद्यमानयोस्सर्वदा सत्त्वेन नित्यतया निवृत्त्यनुत्पत्ति-
प्रयोजकत्वरूपप्रतिबन्धासंभवात् । द्वितीये असतस्तव सर्वदैवासत्त्वा-
न्निवृत्त्यनुत्पत्तिप्रयोजकत्वं शशशृङ्गादेखि न सम्भवतीत्यर्थः । तिरो-
धानतन्निवृत्त्योरनित्यत्वे चासत उत्पत्तिप्रसङ्गः । तन्नित्यत्वाङ्गीकारे
दूषणान्तरमाह—तिरोधिमिति । अनित्यश्चानित्या चानित्यौ ।' मान्
स्त्रिया' इति पुंसश्शेषः ।
 
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥
 
ति सृष्ट्यर्थं सत्वरजस्तमसामन्योन्याभिभवोक्तिरनुपपन्नेत्यर्थः । सत्वं
रजस्तमसी अभिभूय शान्तात्मानो वृत्तीर्लभते । रजस्सत्वतमसी अभि-
भूय घोरात्मानो वृत्तीः । तमस्सत्वरजसी अभिभूय मूढात्मानो
 
19*