This page has not been fully proofread.

290
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
न हि व्यक्तौ विशेषोऽस्ति न चावरणवारणम् ॥
आनन्ददायिनी
 
[जडद्र्व्य
 
किमभिव्यक्तिरावरणनिवृत्तिः तदनुकूलव्यापारो वा ? नोभयत्र तारतम्य-
 
उपमानपरिच्छेदे—
 
भावप्रकाशः
 
पृथिव्यादिषु चैतेषां सतामेव स्वभावतः ।
परिणामादिभिर्व्यक्तिर्व्यथादृष्टयवधार्यते ॥
 
न हि शक्तयात्मना किञ्चिदसज्जन्म प्रपद्यते ! ।
 
इति । आत्मवादेऽपि—
 
नचावस्थान्तरोत्पादे पूर्वात्यन्तं विनश्यति ।
उत्तरानुगुणत्वात्तु समान्यात्मनि लीयते ।
स्वरूपेण ह्यवस्थानां अन्योन्यस्य विरोधिता ।
अविरुद्धस्तु सर्वासु सामान्यात्मां प्रवर्तते ॥
 
इति । एतच्च उदाहृतपञ्चशिखाचार्यवचनसमानार्थकम् । एवंचावस्थाना-
मपि सर्वकालसंबन्धित्वमुभयसंमतमेव । योगभाष्ये अर्थक्रियाकारित्व-
तदभावोपपादनभनेकान्ताश्रयणेन कृतम् । नावस्थानां सर्वकालासंबन्ध
उक्तः । सांख्यैस्तु-
 
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ।
 
प्रवर्तते त्रिगुणतस्समुदयाच्च ।
 
परिणामतस्साललवत्प्रतिप्रतिगुणाश्रयविशेषात् ।
 
इत्यनेन 'गुणिनित्यत्वेऽपि' इत्यादियोगभाष्योक्त एवार्थोऽनेकान्तपक्ष-
मनवष्टभ्यैवोक्त इति पक्षद्वयतात्पर्यमाकलय्य वाचस्पतिना तात्पर्यटी-
कायां तथोक्तमिति सुधीभिरूह्यम् ॥