This page has not been fully proofread.

सरः]
 
सांख्ययोगदर्शनयोः सर्वनित्यत्वाभिप्रायकत्वप्रदर्शनम्
 
289
 
भावप्रकाशः
 
लिङ्गमात्रालिङ्गानि गुणपर्वाणि २ । १९ । इति सूत्रोक्तः कथितः ।
एतेन यद्यपि विशेषाणां भूतेन्द्रियाणां धर्मलक्षणावस्थापरिणामस्तु
न तत्वान्तरोत्पत्तौ हेतुः । अथाऽपि उभयोरवैलक्षण्यमेव अनुगत-
लक्षणाक्रान्तत्वादिति बोधितम् । गुणानां न नाशः अपितूद्भवाभिभ-
वावेवेति विशेषाविशेषेत्यादिसूत्रभाष्ये स्पष्टम् । एवं च 'न पयसः
परिणामगुणान्तरप्रादुर्भावात्' इत्यक्षपादसूत्रे तत्वान्तरोत्पत्तिहेतुपरिणा-
माभिप्रायेणैव गुणान्तरप्रादुर्भावादित्युक्तमिति बोध्यम् ॥
 
ननु 'न व्यवस्थानुपपत्तेः' इत्येतदवतरणन्यायवार्तिके ' सर्वं
नित्यमित्येतद्यथा वर्णयन्ति' इत्येतद्विवरणे तात्पर्यटीकायां 'तदेवं साङ्ख्यानां
मतमपास्य स्वायम्भुवानां मतमपाकर्तुमुपन्यस्यति — अपरे तु सर्वं नित्यं
इत्येतदन्यथा वर्णयन्तीत्यवतार्य त्रिविधपरिणामं धर्मधर्मिणोर्भेदाभेदं खाय-
म्भुवसम्मतं प्रदर्श्य 'न व्यवस्थानुपपत्तेः' इति न्यायसूत्रस्य तन्निरास-
कत्वमुपपाद्य साङ्ख्यवत्सत्कार्याभ्युपगमे खयं वार्तिककार आह' इत्यु-
क्तम् । एतत्पर्यालोचनायां स्वायम्भुवानामेव परिणामत्रैविध्यभेदाभेद-
वादितयाऽनेकान्तवादित्वं; साङ्ख्यानामभेदवादित्वेन एकान्तवादित्वमे-
वेति प्रतीयते । त्रिविधपरिणामयोगसूत्रभाष्ये च पातञ्जलानामनेकान्न-
वादित्वं स्फुटमुक्तमित्युभयोर्नित्यैकान्तवादिता न घटते इति चेत् ;
उच्यते— न्यायकणिकायां वाचस्पतिरेव साङ्ख्यानां त्रिविधपरिणाम-
वादितामभाणीत् । अनुपदमेवाचार्यास्तेषां भेदाभेदवादितां व्यक्तीक-
रिष्यन्ति ॥
 
अत्र योगभाष्ये–साङ्ख्यशास्त्रप्रवर्तकपञ्चाशखाचार्यवाक्योदाहरण-
पूर्वकं धर्माणां (अवस्थानां) सर्वदा सत्त्वं स्थापितम् । वाचस्पतिनाऽपि
तद्दृढीकृतम् । यथोक्तं कुमारिलेन रूपादिकं प्रस्तुत्य श्लोकवार्तिके
 
SARVARTHA.
 
19