2025-01-21 07:37:25 by ambuda-bot
This page has not been fully proofread.
288
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
भावप्रकाशः
सर्वदा सत्त्वं चतुर्णामपि गुणिगुणानां ; तथाऽपि गुणविमर्दवैचित्र्येण
तदात्मभूततद्विकाराविर्भावतिरोभावभेदेन परिणामशालितया न कौट-
स्थ्यम् । चितिशक्तेस्तु न स्वात्मभूतविकाराविर्भावतिरोभाव इति कौट -
स्थ्यम् । यथाऽऽहु:-
नित्यं तमाहुर्विद्वांसो यत्स्वभावो न नश्यति ।
इति । विमर्दवैचित्र्यमेव विकारवैचित्रये हेतुं प्रकृतौ विकृतौ च दर्श-
यति — यथेति । यथा संस्थानं पृथिव्यादिपरिणामलक्षणं आदिमत्
धर्ममात्रं विनाशि-तिरोभावि । शब्दादीनां --- शब्दस्पर्शरूपरसगन्ध-
तन्मात्राणां स्वकार्यमपेक्ष्याविनाशिनां — अतिरोभाविनां । प्रकृतौ दर्श-
यति — एवं लिङ्गमिति । तस्मिन् विकारसंज्ञा न त्वेवं विकारवती
चितिशक्तिरिति भावः । तदेवं परीक्षकसिद्धां विकृतिं च प्रकृतिं चोदा-
हृत्य विकृतावेव लोकसिद्धायां गुणविमर्दवैचित्र्यं धर्मलक्षणावस्था-
परिणामवैचित्र्यहेतुमुदाहरति — तत्रेदमुदाहरणमिति । न चायं नियमो
लक्षणानामेवावस्था परिणाम इति सर्वेषामेव धर्मलक्षणावस्थाभेदाना-
मवस्थाशब्दवाच्यत्वादेक एवावस्थापरिणामस्सर्वसाधारण इत्याह---
धर्मिणोऽपीति । व्यापकं परिणामलक्षणमाह — अवस्थितस्येति । धर्म-
शब्द आश्रितत्वेन धर्मलक्षणावस्थावाचकः' इति ॥
अत्र विज्ञानभिक्षुणा योगवार्तिके ' एवं च सति पूर्वधर्मातीततायां
धर्मान्तराभिव्यक्तिरित्येवंरूपपरिणामलक्षणान्नित्यत्वमवस्थानामपि
भवद्भिर्व-
क्तव्यं न तु विनाशः । अवस्थानां च नित्यत्वे किमप्यनित्यं न
स्यादित्येवं धर्मधर्म्यादिकं सर्वं जगत् कूटस्थं स्यात् इति परैर्दोष
उच्यते इत्युपसंहार' इत्याद्युक्तम् । अत्र योगभाष्ये धर्मधर्मिपदे परित्यज्य
गुणिनित्यत्वेऽपीत्याद्युक्तया अविशेषशब्दवाच्यशब्दादितन्मात्र परिणामः
लिङ्गशब्दवाच्यमहत्तत्वपरिणामश्च तत्वान्तरहेतुभूतः । ' विशेषाविशेष-