2025-01-21 07:37:25 by ambuda-bot
This page has not been fully proofread.
सरः]
सांख्ययोगयोः सर्वनित्यत्वाभिप्रायकत्वप्रदर्शनम्
287
भावप्रकाशः
विनाशिनां । एवं लिङ्गमादिमद्धर्ममात्रं सत्वादीनां गुणानां विनाश्य-
विनाशिनां ; तस्मिन् विकारसंज्ञेति । तत्रेदमुदाहरणं - मृद्धर्मी
पिण्डाकाराद्धर्माद्धर्मान्तरमुपसंपद्यमानो धर्मतः परिणमते घटाकार
इति । घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यते
इति ।
लक्षणतः परिणमते । घटो नवपुराणतां प्रतिक्षणमनुभवन्
अवस्थापरिणामं प्रतिपद्यते इति । धर्मिणोऽपि धर्मान्तरमवस्था ।
धर्मस्यापि लक्षणान्तरमवस्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति ।
एवं पदार्थान्तरेष्वपि योज्यमिति । एते धर्मलक्षणावस्थापरिणामा
धर्मिस्वरूपमनतिक्रान्ता इत्येक एव परिणामः सर्वानमून् विशेषानभि-
प्लवते । अथ कोऽयं परिणामः ? अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मा-
न्तरोत्पत्तिः परिणामः' इति । अत्र तत्ववैशारदी-अत्रान्तरे परोक्तं दोषमु-
त्थापयति-अवस्थेति। अवस्थापरिणामे-धर्मलक्षणावस्थापरिणामे । कौट -
स्थ्यदोषप्रसङ्ग उक्तो धर्मिधर्मलक्षणावस्थानाम् । पृच्छति—–कथामति ।
उत्तरमाह-- अध्वनो व्यापारेणेति । दघ्नः किल योऽनागतोऽध्वा तस्य
व्यापारः क्षीरस्य वर्तमानत्वम्; तेन व्यवहितत्वाद्धेतोः । यदा धर्म:-
दधिलक्षणः स्वव्यापारं ——दाधिकाद्यारम्भं क्षीरे सन्नपि न करोति
तदाऽनागतः ; यदा करोति तदा वर्तमानः; यदा कृत्वा निवृत्तस्सन्नेव
स्वव्यापाराद्दाधिकाद्यारम्भात् तदातीत इत्येवं त्रैकाल्येऽपि सत्त्वात् धर्म-
धर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोति । सर्वदा सत्ता हि
नित्यत्वम्! चतुर्णामपि च सर्वदा सत्त्वेऽसत्त्वे वा नोत्पादः । तावन्मात्रं
च लक्षणं कूटस्थनित्यतायाः । न हि चितिशक्तेरपि कूटस्थनित्यायाः
कश्चिदन्यो विशेष इति भावः । परिहरति — नासौ दोष इति ।
नासौ दोषः । कस्मात् ? गुणिनित्यत्वेऽपि गुणानां विमर्दः—अन्योऽ-
न्याभिभाव्याभिभावकत्वं ; तस्य वैचित्र्यात् । एतदुक्तं भवति — यद्यपि