This page has not been fully proofread.

286
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
 
भावप्रकाशः
 
[जडद्रव्ये
 
भिश्च तादृशान्येव तद्विपरीतानि विरुध्यन्ते । सामान्यानि तु अस-
मुदाचरद्रपाण्यतिशयैस्समुदाचरद्भिस्सहाविरोधात्प्रवर्तन्ते इति । ननु
गृह्णीम एतत् ; तथाऽपि विषयसुखस्य कुतस्स्वाभाविकी दुःखता ?
इत्यत आह — एवमेत इति
इति । उपादानाभेदादुपादानात्मकत्वाच्चो-
पादेयस्याप्यभेद इत्यर्थः । तत्किमिदानीमात्यन्तिकमेव तादात्म्यम् ?
तथाच बुद्धिव्यपदेशभेदौ न कल्प्येते इत्यत आह—गुणप्रधानेति ।
सामान्यात्मना गुणभावोऽतिशयात्मना च प्राधान्यम् । तस्मादुपाधितः
स्वभावतश्च दुःखमेव सर्वं विवेकिन इति ॥
 
सर्वस्य सर्वात्मकत्वेऽपि विशेषः प्रकृतसूत्रानन्तर ३-१४ सूत्रभाष्ये
प्रकटीकृतः। सर्वं सर्वात्मकमिति प्रक्रम्य ' देशकालाकारनिमित्तापबन्धान्न
खलु समानकालमात्मनामभिव्यक्तिरिति ' इति । तत्र तत्ववैशारदी-
 
6
 
यद्यपि कारणं सर्वं सर्वात्मकम् ; तथाऽपि यो यस्य कार्यस्य
देशः ; यथा कुङ्कुमस्य काश्मीरः ; तेषां सत्त्वेऽपि पञ्चालादिषु न
समुदाचारः इति न कुङ्कुमस्य पञ्चालादिष्वभिव्यक्तिः । एवं
निदाघे न प्रावृषस्समुदाचार इति । तस्मात् देशकालाकारनिमित्तानां
अपबन्धात्—अपगमात् न समानकालमात्मनां --- भावानां अभि-
व्यक्तिरिति' इति । एवं ' क्रमान्यत्वं परिणामान्यत्वे हेतुः ; इति
तदुत्तरसूत्रभाष्यादिकं च । प्रकृतसूत्रे भाष्यम् —' अवस्थापरिणामे
कौटस्थ्यदोषप्रसङ्गः कैश्चिदुक्तः । कथम् ? अध्वनो व्यापारेण व्यव-
हितत्वात् । यदा धर्मः स्वव्यापारं न करोति तदाऽनागतो यदा
करोति तदा वर्तमानो यदा कृत्वा निवृत्तः तदा अतीत इत्येवं
धर्मधर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते ;
नासौ दोषः ; कस्मात् ? गुणिनित्यत्वेऽपि गुणानां विमर्देवै-
चित्रयात् । यथा संस्थानमादिमत् धर्ममात्रं शब्दादीनां विनाश्य-