This page has not been fully proofread.

सरः ]
 
सांख्ययोगयोः सर्वनित्यत्वाभिप्रायकत्वप्रदर्शनम्
 
285
 
6
 
भावप्रकाशः
 
-
 
तु लक्षणानामेकतमस्य स्वव्यञ्जकाञ्जनस्य भावो भवेत् -
संभवेत् । लक्ष्यार्धाननिरूपणतया लक्षणानां लक्ष्याकारेण तद्वत्ता ।
अत्रैव पञ्चशिखाचार्यसंमतिमाह — उक्तंचेति । एतच्च प्रागेव व्याख्या-
तम् । उपसंहरति — तस्मादिति । आविर्भावतिरोभावरूपविरुद्धधर्भ-
संसर्गादसंकरोऽध्वनामिति' इति । अत्रोदाहृतं पञ्चशिखाचार्यवाक्यं
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः '
२-१५ इति सूत्रभाष्येऽप्युदाहृतम् । तथाच तद्भाष्यम्—— प्रख्या-
प्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्रा भूत्वा शान्तं घोरं
मूढं वा प्रत्ययं त्रिगुणमेवारभन्ते । चलं च गुणवृत्तमिति क्षिप्रपरिणामि
चित्तमुक्तम् । रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते
सामान्यानि त्वतिशयैस्सह प्रवर्तन्ते । एवमेते गुणा इतरेतराश्रयेणो-
पार्जित सुखदुःखमोहप्रत्यया इति सर्वे सर्वरूपा भवन्ति । गुण-
प्रधानभावकृतस्त्वेषां विशेष इति' इति । तत्र तत्ववैशारदी--
'तदेवमौपाधिकं विषयसुखस्य परिणामतस्संस्कारतस्तापसंयोगाच्च दुःख-
त्वमभिधाय स्वाभाविकमादर्शयति — गुणवृत्तिविरोधाच्चेति । व्याचष्टे-
प्रख्येति । प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिरूपेण परिणता गुणाः । सत्वरज-
स्तमांसि परस्परानुग्रहतन्त्राः शान्तं - सुखात्मकं घोरं दुःखात्मकं मूढं-
विषादात्मकमेव प्रत्ययं सुखोपभोगरूपमपि त्रिगुणमारभन्ते । न च
सोऽपि तादृशप्रत्ययरूपोऽस्य परिणामः स्थिर इत्याह-चलं च
गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तं इति । नन्वेकः प्रत्ययः ;
कथं परस्परविरुद्धशान्तघोरमूढत्वान्येकदा प्रतिपद्यते ? इत्यत आह-
रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते इति । रूपाणि
अष्टौ भावा धर्मादयः । वृत्तयः -- सुखाद्याः । तदिह धर्मेण विपच्य-
मानेनाधर्मस्तादृशो विरुध्यते । एवं ज्ञानवैराग्यैश्वर्यैः सुखादि-
 
-