2025-01-21 07:37:21 by ambuda-bot
This page has not been fully proofread.
284
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
भावप्रकाशः
[जडद्रव्य
धर्मिणोऽनन्यत्वेन धर्मेणापीह धर्मिवद्भवितव्यमित्यत आह—तत्र धर्म-
स्येति । भावः
संस्थानभेदः । सुवर्णादेर्यथा भाजनस्य रुचकस्व-
स्तिकव्यपदेशभेदो भवति; तन्मात्रमन्यथा भवति । न तु द्रव्यं
सुवर्णमसुवर्णतामुपैति । अत्यन्तभेदाभावादिति वक्ष्यमाणोऽभिसन्धिः
इति तत्ववैशारदी । ' अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणा-
योगादध्वसंकरः प्राप्नोतीति परैर्दोषश्चोद्यत इति तस्य परिहार:-
धर्माणां धर्मत्वमप्रसाध्यम् । सति च धर्मत्वे लक्षणभेदोऽपि वाच्यः ।
न वर्तमानसमय एवास्य धर्मत्वम्; एवं हि न चित्तं रागधर्मकं
स्यात् । क्रोधकाले रागस्यासमुदाचारात् इति । किञ्च त्रयाणां
लक्षणानां युगपदेकस्यां व्यक्तौ नास्ति संभवः । क्रमेण तु स्वव्य-
ञ्जकाञ्जनस्य भावो भवेदिति । उक्तं च-रूपातिशया वृत्त्यति-
शयाश्च परस्परेण विरुध्यन्ते । सामान्यानि त्वतिशयैस्सह प्रवर्तन्ते
तस्मादसंकर' इति योगभाप्यं । अत्र तत्ववैशारदी-'परोक्तं दोष-
मुत्थापयति — अत्र लक्षणपरिणाम इति । यदा धर्मो वर्तमनस्तदैव
यद्यतीतोऽनागतश्च तदा त्रयोऽप्यध्वानः संकीर्येरन् । अनुक्रमेण
चाध्वनां भावेऽसदुत्पादप्रसङ्ग इति भावः । परिहरति — तस्य
परिहार इति । वर्तमानतैव हि धर्माणामनुभवसिद्धा ततः प्राक्पश्चा-
त्कालसंबन्धमवगमयति । न खल्वसदुत्पद्यते ! न च सद्विनश्यति !
तदिदमाह --- एवं हि न चित्तं इति । क्रोधोत्तरकालं हि चित्तं
रागधर्मकमनुभूयते ! यदा च रागः क्रोधसमये अनागतत्वेन नासीत्
तत्कथमसावुत्पद्येत ? अनुत्पन्नश्च कथमनुभूयेत ? इति । भवत्वेवं
तथाऽपि कुतोऽध्वनामसंकर इति पृच्छति -- किञ्चेति । किं कारण-
मसंकरे ? चः पुनरर्थे । उत्तरमाह—त्रयाणामिति । त्रयाणां
लक्षणानां युगपन्नास्ति संभवः । कस्मिन् ? एकस्यां चित्तवृत्तौ । क्रमेण