This page has not been fully proofread.

282
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[
जडद्रव्य
 
:;
 
भावप्रकाशः
 
योगसूत्रे (१-९) तत्ववैशारद्यां - ' न खलु सांख्यीये राद्धान्ते अभावो नाम
कश्चिदस्ति वस्तुधर्मः!' इति वाचस्पतिना पातञ्जलराद्धान्तस्यापि सांख्यी-
यत्वोक्तेः ; न्यायकणिकायां तेनैव 'त्रिस्रः खल्विमा भावपरिणतिविधा
भवन्ति सांख्यानाम्' इति एतेन ( ३-१-१३) इत्यादि योगसूत्रार्थस्य
सांख्यसम्बन्धित्वाभिधानात् वेदान्तेषु पातञ्जलानां सेश्वरसांख्यव्यपदेश-
दर्शनात् योगभाष्ये पादान्ते ' इति पातञ्जले सांख्यप्रवचने ' इत्युक्तेश्च ।
एतेन 'सांख्यस्य नित्यैकान्तवादनियतान् प्रयोगानन्वाह ' इति 'सन्ति
प्रागप्यवस्थाः' इत्येतदवतरणाचार्यसूक्तिरपि निर्व्यूढा; उभयोरप्य-
वस्थानां सर्वकालसम्बन्धित्वस्य सम्मतत्वात् । निरन्वयविनाशानङ्गीकारेण
प्रागभावध्वंसयोरतीतानागतावस्थारूपतया अभिव्यक्तेर्वर्तमानावस्थारूप-
तयाऽवस्थानां परस्पराभावरूपत्वेन नाशाभावस्यापि वर्तमानावस्था-
रूपत्वाभ्युपगमेन कालादिभेदेनावस्थानामेकत्र विरोधविरहात् । अव-
स्थानां धर्मतया अतीतादिलक्षणपरिणामस्य धर्मनिष्ठत्वात् ; तथाहि —
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः' (३–१३)
इति पातञ्जलं सूत्रं सर्वनित्यतापूर्वपक्षनिदानमिति प्रतीयते । तत्र
योगभाष्यम् –— एतेन-पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण
भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्वोक्तो वेदि-
तव्यः । तत्र व्युत्थाननिरोधयोर्धर्मयोरभिभवप्रादुर्भाव धर्मिणि धर्म-
परिणामो लक्षणपरिणामश्च निरोधस्त्रिलक्षणः त्रिभिरध्वभिर्युक्तः ।
स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्त -
मानं लक्षणं प्रतिपन्नो यत्रास्य स्वरूपेणाभिव्यक्तिः ; एषोऽस्य
द्वितीयोऽध्वा ; नचातीतानागताभ्यां लक्षणाभ्यां वियुक्तः' इति ।
अत्र तत्ववैशारदी—' अभिव्यक्तिः समुदाचारः । एषोऽस्य प्रथममनाग-
तमध्वानमपेक्ष्य द्वितीयोऽध्वा । स्यादेतत्; अनागतमध्वानं हित्वा