2025-01-21 07:37:21 by ambuda-bot
This page has not been fully proofread.
सर:] सर्वनित्यत्वे परोक्तानुमाननिरासः कारकव्यञ्जकस्वरूपभेदव्यवस्थानुपपत्तिश्च 281
भावप्रकाशः
1
नित्यत्वे विवक्षितम् ; वैनाशिकार्धवैनाशिकमतद्वये निरन्वयविनाशाङ्गी-
कारेऽपि सांख्यवत् सिद्धान्तेऽपि भावान्तराभावपक्षाश्रयणेन अवस्थानाम-
नित्यत्वाङ्गीकारेऽपि निरन्वयविनाशानभ्युपगमेन विवादस्यैव विलयप्र-
सङ्गात् । किंतु सर्वकालसम्बद्धत्वम् । सिद्धान्तेऽवस्थानां कारकव्या-
पारात्पूर्वमसत्त्वाङ्गीकारेण न नित्यत्वम् । सांख्यमते तु न तथा ;
यथाऽऽहाक्षपादः -- ' सर्वं नित्यं पञ्चभूतनित्यत्वात् ४-१-२९ इति ।
अत्र तात्पर्यटीका–'पञ्चभूतात्मकं खल्वेतत् गोघटादिकार्यमुपलभ्यते ।
व्यपदिशन्ति हि मृद्धटो मृच्छरीरमिति । भूतानि च नित्यानि । तेषा-
मुच्छेदस्य नैयायिकैरनभ्युपगमात् । तेन भूतानां गोघटादीनां नित्य-
तेति पूर्वः पक्षः । एतद्विचारावसरे 'न व्यवस्थानुपपत्तेः' इति सूत्रा-
वतरणभाष्यम् —' अवस्थितस्योपादानस्य धर्ममात्रं निवर्तते धर्ममात्र-
मुपजायते । स खलुत्पत्तिविनाशयोर्विषयः । यच्चोपजायतं तत् प्रागप्यु-
पजननादस्ति । यच्च निवर्तते तन्निवृत्तमप्यस्तीति । एवं च सर्वस्य नित्य-
त्वमिति' इति । एवं 'न पयसः परिणामगुणान्तरप्रादुर्भावात् '
३-२-१४ इति सूत्रेऽाप ' पयसः परिणामो न विनाशः इत्येक आह ;
परिणामश्च अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिरिति ।
गुणान्तरप्रादुर्भाव इत्यपर आह; गुणान्तरप्रादुर्भावश्च सतो द्रव्यस्य पूर्व-
गुणानिवृत्तौ गुणान्तरमुत्पद्यते इति । स खल्वेकपक्षीभाव एव ; अत्र तु
प्रतिषेधः' इति च । अत्रापि तात्पर्यटीका – ' भाष्ये गुणान्तरप्रादुर्भाव
इति द्रव्यं तावत्सदेव । गुणोाप सन् केवलमनुद्भूत आसीत् । एकश्चोद्भूत
गुणः। तत्र य उद्भूतस्तिरोभवति पूर्वगुणस्य निवृत्तौ तिरोभूतौ गुणान्तर-
मुत्पद्यते तद्भवतीत्यर्थः' इति । अत्र न्यायभाष्ये ' अवस्थितस्य द्रव्यस्य'
इत्यादिपातञ्जलसूत्रभाष्यानुपूर्वदर्शनेन कापिलाः पातञ्जलाश्च सर्वनित्य-
त्ववादिनः इति सिध्यति । एवं पातञ्जलसाङ्ख्यदर्शन योरेकपक्षी भावोऽपि ।
-