This page has not been fully proofread.

280
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
विमतं पूर्वापरकालयोरपि सत् प्रमेयत्वात् सत्त्वाद्वा आत्मवत् ।
विगीतः काल एतङटादिमान् कालत्वात् एतत्कालवदित्यादि-
र्निरस्तः; सर्वलोकप्रत्यक्षादिवाधात् ।
 
* कारकव्यञ्जकानां च व्यवहारव्यवस्थितिः ।
 
2* किन्निमित्तेति वक्तव्यं * सर्वनित्यत्ववादिना ॥
आनन्ददायिनी
 
बीधोऽपीति वक्तुं (कार्यप्राप्तकारणानामेवोत्पादकत्वमिति सत्त्वसाधकरूपस्य
निरस्तत्वात् प्रत्यक्षादिभिर्वाधोऽपि सिद्ध इति विशेष इति दूषितस्यापि ) पुन -
रनुवादः । अन्यथा आदिशब्देाक्तानुमानादीनां तुल्यतया प्रतिपक्षत्वप्रसङ्ग
इति ध्येयम्। व्यञ्जकत्वमेवोत्पादकत्वं तदतिरेकेणोत्पादकत्वाभावात् । तत्र
सिद्धत्वमनुकूलमेव । न च कारकव्यञ्जकव्यवस्थिती न स्यातामिति
वाच्यम् ; तारतम्यमादाय व्यवस्थासंभवात् । तथाच पूर्वोक्ता दोषा
इत्याह-कारकव्यञ्जकानां चेति ।
 
भावप्रकाशः
 
1* कारकव्यञ्जकानां च व्यवहारव्यवस्थितिः ।
 
इत्यत्र व्यवहारव्यवस्थितिरित्यनेन 'न व्यवस्थानुपपत्तेः, इत्य-
क्षपादसूत्रस्थव्यवहारशब्दार्थ उक्तः । तेन वाचस्पतिना स्वायम्भुवमत-
मात्रापाकरणपरतया योजितमपि तत्सूत्रं कापिलस्वायम्भुवमतद्वयनिरसन
एव स्वरसमिति बोधितम् ।
 
2* किन्निमित्तेति—पातञ्जलभाष्ये--
उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः ।
वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥
 
इत्युक्तया कारकव्यञ्जकभेदस्य पूर्वपक्षिणाऽपि व्यवस्थापनीयत्वादिति
भावः। * सर्वनित्यत्ववादिनेति — नात्र निरन्वयविनाशाप्रतियोगित्वरूपं
 
3.