2025-01-21 07:37:21 by ambuda-bot
This page has not been fully proofread.
सरः]
सत्कार्यवादद्वितीयहेतुनिरासे सांख्यवृद्धगाधादूषणम्
279
1
सर्वार्थसिद्धिः
'* अत्र कार्यमप्राप्तैरित्युपस्कार्यम् । एतेन -
असत्त्वान्नास्ति सम्बन्धः कारकैस्सत्त्वसङ्गिभिः ।
असम्बन्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ॥
इति साङ्खयवृद्धगाधाऽपि प्रत्युक्ता । इह तु खोचितात्कारक -
चक्रात्तत्सम्बन्धतश्च कार्यदृष्टेरित्यव्यवस्थामूलघातः । एतेन
आनन्ददायिनी
उपस्कार्यं–अध्याहार्यम् । एतेनेत्यस्यार्थमाह-इह त्विति । एतेनेति--पूर्वं
कालपक्षकानुमानस्य परपक्षानुसारेण दूषणमुक्तम् । इदानीं प्रत्यक्षादिभि -
भावप्रकाशः
कार्यबोधकं चान्यन्न किञ्चिदपि पदमस्ति । उत्तरसूत्रे च अभिचारादिति
हेतुविशेषसमर्पकं पदं पीडनपदं च तत्सम्बन्धिकार्यविशेषार्थकम् ।
घटादिपदमपि कार्यविशेषवाचि । अत एव वार्तिके कारकज्ञापकोभय-
साधारण्योक्तिः ; ' असत्साध्यते' इत्यादितात्पर्यटीकोक्तिश्च स्वरसत-
स्संगच्छते । प्राप्तयप्राप्तिसमयोरेकोत्तरत्वं च तत्रैवोक्तम् । अतः पूर्व-
सूत्रात् साध्यमप्राप्य हेतोः इति त्रयमनुवर्तते । हेतोरिति पञ्चमी ।
जातावेकवचनम् । हेतोस्साध्यमप्राप्य घटादिनिष्पत्तिदर्शनादप्रतिषेध
इत्येकोऽर्थः । घटादेर्हेतोश्च परस्परोप श्लेषसम्भावनां प्रत्यक्षबाधेन विफ-
लयितुं ' निष्पत्तिदर्शनात्' इति । यत्र च सा सम्भावना नास्ति तद-
भिप्रायेण पीडने चेत्यादि । हेतोरभिचारात् साध्यमप्राप्य पीडने चाप्रति-
षेध इति तदर्थ इत्यभिप्रेत्य पर्यवसितमाह - ' * अत्र कार्यमप्राप्तैरित्युप-
स्कार्यमिति । एतेन पूर्वसूत्रे विश्वनाथेन वृत्तौ कार्यप्राप्तयप्राप्तिपरतया
विवरणमपि संगच्छते इति बोध्यम् । न्यायभाष्यादिकमक्षपादहृदया-
ननुसारीति बुद्धिसरे (५६) वक्ष्यते ॥