This page has not been fully proofread.

278
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
भावप्रकाशः
 
विवक्षित्वा बहुवचनप्रयोगो वृक्षा इति तद्बहुत्वसंख्याया एकत्वं
विवक्षित्वा एकवचनं एकं वनमिति' इति । अस्मिन् सूत्रे च -
' मृत्पिण्डप्राप्तानां दण्डादीनां नाविशेषो न च साध्यसाधनभावनिवृत्तिः ;
न हि मृत्पिण्डप्राप्तो दण्डः साधनत्वं जहाति ! नापीतरत् साध्यत्वं
जहाति ! अथ मन्यसे ! घटस्तत्र साध्यः ; तस्यचाविद्यमानस्य किं
साधनेन ? नाविद्यमानस्य साधनम् ; अपितु मृत्पिण्डो घटीक्रियते ।
किमिदं घटाक्रियत इति : मृदवयवाः पूर्वव्यूहपरित्यागेन व्यूहान्तरमाप-
द्यन्ते व्यूहान्तराच्च घटोत्पत्तिः । पीडने चाभिचारादप्राप्तयापि साधकत्वं
दृष्टम् । कोऽप्राप्तयर्थः ? परस्परोप श्लेषमन्तरेण साधकत्वम् । अन्यथा
तूद्देशेनायं प्राप्त एव नियमात् । इयं च जातिः सर्वहेत्वपवादद्वा-
रिका । यदि ज्ञापको हेतुरपदिश्यते तथाऽपि । यदि कारकस्तथाऽ-
पीति' इति न्यायवार्तिकम् । अत्र तात्पर्यटीका – सूत्रं तद्याचष्टे-
मृत्पिण्डप्राप्तानां दण्डादीनां न गङ्गासागरवदंविशेषः । मृद-
वयवाः पूर्वव्यूहपरित्यागेनेति । साध्यं — कर्म । तच्च मृदवयवाः ते च
सिद्धा एवेत्यव्यभिचारः । घटस्तु फलं न साध्य इति भावः । उत्तरं
परस्परोपश्लेषमन्तरेण साधकत्वमिति । अन्यथा तद्देशेनासौ प्राप्त एव ;
यदुद्देशेनाभिचारः श्येनादिना क्रियते तस्यैव प्रत्यवायो भवति नान्य-
स्येति नियमः ; अत्रापि संयुक्तसंयोगादिः सम्बन्ध उपेयः । तस्यापि
हेतुत्वं क्रियां प्रति दृष्टम् । यथा पङ्काख्यायां भुवि' इति । अत्र
यद्यपि 'अनयोरुत्तरं ' इत्युत्तरसूत्रावतरणे; 'उभयथा खल्वयुक्तः
प्रतिषेधः' इत्युत्तरसूत्रे च न्यायभाष्यवाक्यमनुरुध्य पूर्वसूत्रात् प्राप्य
साध्यम्' इति भागस्य आप्राप्तयाऽसाधकत्वादित्यत्र नञयति-
रिक्तांशस्य चानुवृत्तिमाश्रित्य मृदवयवानां साध्यत्वमुपपाद्य उत्तरसूत्रार्थो
वर्णितः; तथाऽपि पूर्वसूत्रे हेतुसाध्यपदे परस्परसम्बन्धयर्थद्वये स्वरसे;
 
"