2025-01-21 07:37:19 by ambuda-bot
This page has not been fully proofread.
'
सरः] सत्कार्यवादद्वितीयहेतुनिरासे कार्यप्राप्तेः कारणानङ्गत्वे अक्षपादसंमतिः 277
आनन्ददायिनी
सम्बन्ध आवश्यक इति निर्बन्धकरणे च उक्तरीत्या व्यभिचारात्—
संबद्धादपि रज्जादेरुत्पत्त्यदर्शनात् असंबद्धोत्पादनेऽपि न विरोध इत्यर्थः ।
भावप्रकाशः
घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः ' (५-१-७) इति
न्यायभाष्यवार्तिकतात्पर्यटीकासंमतः पाठः । शतदूषण्यामप्येवमेव । एत-
।
त्पूर्वसूत्रं च - 'प्राप्य साध्यमप्राप्य वा हेतोः प्राप्तयाऽविशिष्टत्वादप्राप्तयाऽ-
साधकत्वाच्च प्राप्तयप्राप्तिसमौ ' इति । अत्र न्यायवार्तिकम् - यदि तावदयं
हेतुः साध्यं संप्राप्नोति ; प्राप्तया अविशिष्टः । कोऽविशेषार्थः ? उभयो-
विद्यमानता । नाविद्यमानस्संप्राप्यते इति हेतोस्साधनार्थो हीयते ।
अथ न प्राप्यते ; अप्राप्तन हेतुना अविशिष्टत्वादहेतुर्भवति । न ह्यग्नि-
प्राप्तो दहति ! प्राप्तया प्रत्यवस्थानं प्राप्तिसमः । अप्राप्तया प्रत्यव-
स्थानमप्राप्तिसमः । अनयोर्भेदेनोपन्यासो विवक्षातः । भेदविवक्षायां
प्राप्तयप्राप्तिसमाविति । अभेदविवक्षायामेकमेवोत्तरम् । यथा वृक्षा
वनमिति' । अत्र तात्पर्यटीका 'असत्साध्यते न तु सत् । प्राप्तं च
सत् । असतः प्राप्त्यसम्भवात् ; तस्मान्न साध्यम् । अपि च येन
यस्य प्राप्तिस्तेन तस्यैक्यमेव । यथा - गङ्गा सागरं प्राप्ता सागरेण
सङ्गता सागरेणाभिन्ना ; तद्वदेवाभिन्ने चेत्साध्यसाधने नास्ति साध्य-
साधनभावः । तस्य भेदाधिष्ठानत्वादित्यपि द्रष्टव्यम् । अप्राप्तिसमस्तु
स्फुट एवेति ॥
?
ननु प्राप्त्यप्राप्तिसमयोर्मिलितयोः साधनप्रतिषेधस्यैकत्वात् कथं
प्राप्त्यप्राप्तिसमौ विभिन्नौ इति : अत आह—- अनयोर्भेदोपदेशो विव-
क्षातः इति । साधनप्रतिषेधस्यैकत्वेऽपि प्राप्य वाऽप्राप्य वेति विकल्पभेदा-
द्भेदविवक्षेत्यर्थः । अभेदविवक्षायां त्वेकमेवोत्तरं ; यथा वृक्षाणां बहुत्वं