2025-01-21 07:37:18 by ambuda-bot
This page has not been fully proofread.
सरः] सत्कार्यवादद्वितीयहेतुनिरासे अनिष्टापादनं अपसिद्धान्तः आगमविरोधश्च 275
सर्वार्थसिद्धिः
इति '* स्वसमयविरोधात् । * अजसंयोगपक्षे विभूना-
मपि नित्यप्राप्तेः ॥
व्याप्तिरूपेण सम्बन्धः तस्याश्च पुरुषस्य च ।
दारुण्यग्निर्यथा .
11
इत्यागमविरोधाच्च । 'जहात्येनां भुक्तभोगामजोऽन्यः' इति
* श्रुत्या मुक्तस्य प्रकृतिप्राप्तिर्निवर्त्स्यतीति चेन्न ; तदाऽपि
परस्परधर्माध्यासाधिकारभूतदर्शनमात्रनिवृत्तेस्त्वदिष्टत्वात् ॥
आनन्ददायिनी
हेतुमुपकार्योपकारकभावं पूर्वार्धेन प्रतिपाद्य पङ्गन्धवदित्यनेन संयोग-
उक्तः' इति । तत्कृतस्सर्गः — महदादिसर्गस्संयोगकृत इत्यर्थः ।
अजसंयोगपक्षे इति — विभूनामात्मनां परस्परसंबन्धाद्यभिचार इत्यर्थः ।
प्रकृतिपुरुषयोस्संबन्धानङ्गीकारे आगमबाधमप्याह – व्याप्तिरूपेणेति ।
ननु प्रकृतिपुरुषयोर्न नित्यस्संयोगः ; मुक्तस्य तन्निवृत्तिश्रवणात् । तथाच
यावद्द्रव्यं सम्बन्धोऽत्र विवक्षितो नास्तीति शङ्कते—जहात्येनामिति ।
निवर्त्स्यतीति — ' न वृद्भय' इति इडभावः । तदाऽपीति – जहातीति
,
भावप्रकाशः
-
1 * खसमयविरोधादिति - एतेन 'नापि सत्वरजस्तमसां
संयोगः अप्राप्तेरभावात्' इति वाचस्पत्युक्तिरपि स्वसमयविरुद्धेति
सिद्धम् । वंशीधरोक्तरीत्या प्रकृतिपुरुषसंयोगाङ्गीकारेऽपि स्वसमयवि-
रोधः (१३३) पूर्वमेवोपपादितः । * अजसंयोगपक्षे इति — अजसंयो-
गश्च आकाशादिकमात्मना संयुज्यते संयोगित्वादित्यादिना तत्वकौमुदी -
प्रथमपद्यविवरणे वंशीधरेण साधितः * श्रुत्येति — अत्र वंशीधरविवर-
णम्—भोगस्सुखादिग्रहणम् । ग्रहणं च तदाकारता । सा च कूटस्थ-
-
18*