2025-01-21 07:37:17 by ambuda-bot
This page has not been fully proofread.
274
सव्याख्यसर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
चेन्न ; * निमित्तवदेव नित्यप्राप्तिनैरपेक्ष्यात् । त्वत्पक्षेण च यद्येन
नित्यप्राप्तं न तत्तस्योपादेयं यथा पटस्य तन्तुः तथा च
पटः तस्मान्न तन्तूपादेय इति प्रसङ्गात् । प्रकृतिपुरुषयोर्नित्य-
प्राप्तयोर्नोपादानोपादेयभावः । अतो यद्येन नित्यप्राप्तं न
तत्तस्योपादेयं यथा प्रकृतिपुरुषयोरन्योन्यमिति । पटादिकमपि
येन नित्यप्राप्तं कथं तस्योपादेयं स्यात् ; तयोरन्योन्यप्राप्ति-
र्नास्तीति चेन्न ;
पङ्गन्धवदुभयोरपि संयोगः तत्कृतस्सर्गः ॥
आनन्ददायिनी
निमित्तवदेवेति—निमित्ते अतिप्रसङ्गपरिहारवदुपादानेऽपि संभवादिति
भावः । प्रतिपक्षमाह — त्वत्पक्षेण चेति । तथाच पट इति —– नित्यप्राप्त
इत्यर्थः । व्यभिचारमप्याह — प्रकृतिपुरुषयोरिति । विरुद्धत्वमप्याह-
अतो यद्येनेति । तयोः - प्रकृतिपुरुषयोः । पङ्गन्धवदिति —
l
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
-
इति पूर्वार्धम् । अत्रेत्थं वाचस्पतिना व्याख्यातम् –' ननु चेतनोऽहं
चिकीर्षन् करोमी 'ति कृतिचैतन्ययोः सामानाधिकरण्यमनुभूयते तन्नोप-
पद्यते चैतन्यस्याकर्तृत्वात् कर्तुश्चाचैतन्यात् इति शङ्कायाम् ;-
तस्मात्तत्संयोगात् अचेतनं चेतनावदिव लिङ्गम् ।
इति परस्परसंयोगाधीनो भ्रम इत्युक्ता ; अवच्छिन्नयोस्संयोगोऽपेक्षां
विना न संभवति ; अपेक्षा चोपकार्योपकारकभावं विना नेति अपेक्षा-
भावप्रकाशः
* निमित्तवदेवेति —— एतेन वंशीधरोक्तानुमानमप्यप्रयोजकमिति
दर्शितम् ॥