2025-01-21 07:37:17 by ambuda-bot
This page has not been fully proofread.
2
सरः] त्रिगुणपरीक्षायां सत्कार्यवादद्वितयहेतु निरासः निग्रहोद्भावनं च 273
सर्वार्थसिद्धिः
कार्यप्राप्तेः कारणानां मिथः प्राप्तिवत् '* त्वयाऽप्यदृष्टत्वात् ।
* तदिहानङ्गाङ्गीकारो युक्ता हानिश्च प्रागसत्त्वयुक्तस्योपेक्षणात् ।
अविषयवृत्तित्वं वा कारकाणां सम्बन्धस्य ; विरुद्धस्थले संच-
रणात् । समश्च प्राप्तावप्यतिप्रसङ्गः । न हि प्राप्तयोरपि रज्जु-
घटयोर्जन्यजनकता ! तत्र नित्यप्राप्तिर्नास्तीति चेत्; निमित्ता-
नामपि घटादिभिर्नित्यप्राप्त्यसम्भवात् । उपादाने तु स्यादिति
आनन्ददायिनी
कार्यस्या (स्यासिद्धत्वानियमात् ) सिद्धत्वे सिद्धं प्रत्युत्पादकत्वस्यासंभवा-
दित्यर्थः--अनङ्गाङ्गीकार इति । अनपेक्षितस्वीकारो निग्रह इत्यर्थ: ----
युक्ताङ्गहानिः । सिद्धत्वस्य प्रतिबन्धकतया तदभावरूपस्यासिद्धत्व-
स्योत्पत्त्यनुकूलतया तत्त्यागो युक्ताङ्गहानिर्निग्रह
इत्यर्थः ।
अविषयवृत्तित्वं चेति । अविषये – स्वविषयतानर्हे स्वव्यापारफलप्रति-
कूल एवं वृत्तित्वं वेत्यर्थः । विरुद्धस्थले – स्वव्यापारफलप्रतिबन्ध-
कस्थले । एवं च तव निग्रहत्रयमिति भावः । अव्यवस्थाभयादिति
द्वितीयं दूषयति- समश्चेति । तदेव दर्शयति —न हीति ।
1
भावप्रकाशः
* त्वयाऽप्यदृष्टत्वादिति -- अनभिव्यक्तं कारणं अभिव्यक्तं
कार्यं; अनभिव्यक्तिश्च अतीताख्यो लक्षणपरिणामः अभिव्यक्तिश्च
वर्तमानताख्य इति भवत्सिद्धान्तेन कार्यनियतपूर्ववृत्तित्वस्य कारणे
भवताऽप्यङ्गीकारादिति भावः । जातिदोषानाह — 2 * तदिहेत्यादिना
एतेषां स्वरूपं तु बुद्धिसरे ' युक्तत्यागस्त्वयुक्तग्रहणमविषये वृत्तिरप्यत्र-
दोषा' ' इत्येतद्विवरणे स्फुटीभविष्यति ॥
SARVARTHA.
18