2025-01-21 07:37:18 by ambuda-bot
This page has not been fully proofread.
सरः]
सत्कार्यवादहेतुनिरासे प्रतिज्ञाहेतु दूषणानि
271
सर्वार्थसिद्धिः
सतोऽभिव्यक्तौ घटतैलतण्डुलादि निदर्शनमस्ति असत उत्पत्तौ
न किञ्चित् ! इति चेत् ; किमतः ? नहि निदर्शनमेव प्रमाणम् !
हेतुनैष्फल्यप्रसङ्गात् । न च निदर्शनाभावो बाधकः ! सर्वत्र
प्रतिनियतस्वभावलोपप्रसङ्गात् । अपि च असदकरणादित्यत्र
कार्यस्य प्राक्सत्वे क्रियमाणत्वादित्येव हेतुस्स्यात् । तथा च
'* प्रतिज्ञाहेतुविरोधः । विपक्षात् स्वपुष्पादेः सपक्षाच्च सर्वस्मात्
व्यावृत्तत्वेन हेतोरसाधारणत्वप्रसङ्गश्च । भावत्वेन तु प्राक्सत्त्वं
साधयाम इति चेत्; तदाऽपि प्रत्यक्षविरोधः । अन्यथा नित्या-
सतोऽपि 2 * कुतश्चिन्नित्यसत्त्वसाधने निवारकाभावात् । असत-
स्सत्त्वापादनमशक्यमित्युक्तमिति चेन्न ; अत्यन्तासत्त्वे विव-
क्षिते कार्येषु तदभावात् । प्रागसत्त्वे तु सृष्ट्यनुगुणस्यैव तद्वि-
रुद्धत्वोपन्यासात् ॥
आनन्ददायिनी
सर्वत्रेति । तेजस उष्णस्पर्शः पृथिव्या गन्ध इत्यादिलोपप्रसङ्गादित्यर्थः ।
अपूर्वोत्पादनविवक्षायां विरुद्धत्वमपत्यिाह- अपिचेति । सपक्षाच्चेति–
नित्यत्वेनाभ्युपगतादात्मादेरित्यर्थः — अन्यथेति । शशशृङ्गादेरप्युत्पत्त्य-
भावादिना नित्यसत्त्वसाधनप्रसङ्गादित्यर्थः -- प्रागसत्त्वे त्विति । तस्यो ·
त्पत्तियोग्यतावच्छेदकत्वात् उत्पत्तेश्च आद्यसमयसंबन्धरूपायाः प्राग-
सत्त्वस्यानुकूलत्वात् तस्य तद्विरुद्धत्वोपन्यासो व्याहत इत्यर्थः ।
भावप्रकाशः
-
1 * प्रतिज्ञाहेतुविरोध इति — प्राक्सतस्सिद्धस्य कृतिसाध्यत्वासंभवादिति
भावः ।'*कुतश्चित्-विषयत्वादिना । समानतन्त्रे 'शब्दज्ञानानुपाती वस्तु-
शूयने विकल्पः' इति असतोऽपि वृत्तिविषयत्वव्यवस्थापनादिति भावः ।