2025-01-21 07:37:16 by ambuda-bot
This page has not been fully proofread.
270
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
चेह तथा! 'आगन्तुकाभावे च पुरुषवत् प्रकृतिरपि ते
निर्व्यापारैव स्यात् । तथा च गतं सृष्टिप्रलयादिवादैः सिद्धा-
न्तसृष्ट्यादिभिश्च ! किंच सत्कार्यमिति कार्यस्य सत्त्वमात्रे
साध्ये सिद्धसाध्यता * कारकव्यापारात्प्रागपि सदिति साध्ये
कार्यस्य कारकव्यापारस्य प्रागसत्त्वमङ्गीकृतं स्यात् । असदकर-
णात् शक्तस्य शक्यकरणादिति हेत्वोथ करणशब्देनापूर्वोत्पादने
विवक्षिते स्ववचनव्याघातः । व्यक्तिविवक्षायां तु व्यज्यमान-
त्वात्प्रागपि सदिति स्यात् ; तदा अन्यतरासिद्धो हेतुः । ननु
आनन्ददायिनी
दोषमाह—आगन्तुकाभाव इति । व्यापारस्यागन्तुकस्याभावादित्यर्थः ।
तस्यापि पूर्वसत्त्वाङ्गीकारे सृष्टिप्रलयादिकं युगपत्स्या (सर्वदा स्या) दिति
भावः—सिद्धान्तसृष्ट्यादिभिश्चेति । सिद्धान्तकल्पनयेत्यर्थः । यद्वा
त्वत्सिद्धान्तसृष्ट्यादिक्रमादिभिश्चेत्यर्थः कारकव्यापारात्प्रागिति । प्रा-
क्व(प्राक्सत्त्व) स्य तदभावघटितत्वादिति भावः -- अपूर्वोत्पादने इति ।
उत्पादनस्योत्पत्तेः पूर्वमविद्यमानस्य विवक्षितत्वे इत्यर्थः । व्यक्ति-
विवक्षायामिति । अभिव्यक्तिविवक्षायामित्यर्थः । विपर्ययमुखेन पर्यव-
सितं हेतुमाह—व्यज्यमानत्वादिति । हेत्विति -- व्याप्तं लिङ्गमित्यर्थः ।
भावप्रकाशः
'* आगन्तुकाभावे इति । ' सत्कार्यं ; कारणव्यापारात्प्रागपीति शेषः ।
तथा च न सिद्धसाधनं नैयायिकतनयैरुद्भावनीयम्' इति वाचस्पति-
व्याख्यानं दूषयति 2 कारकव्यापारात्प्रागपीत्यादि ॥