This page has not been fully proofread.

सर:] सत्कार्यवादनिरासे कारकव्यञ्जकस्वरूपभेदः कार्यस्य व्यङ्ग्यत्वे दोषश्च 269
 
सर्वार्थसिद्धिः
 
पुनरपि दण्डादिव्यापारनिष्पाद्यत्वमस्ति ! 1* किंच कार्य-
व्ययशब्दौ च व्यवस्थितविपयौ लोके दृष्टौ कारकव्यञ्जक-
भेदश्च । कारकं समग्रमप्येकमुत्पादयति ; व्यञ्जकं तु सहकारि-
संपन्नं समानेन्द्रियग्राह्याणि समानदेशस्थानि तादृशानि सर्वा-
यपि व्यनक्ति । तदत्र घटादिव्यक्तिसामग्रयैव तद्वन्मृत्पि-
ण्डगतानां करकादीनामपि व्यक्तिस्स्यात् । व्यञ्जकत्वे सिद्धे
अवान्तरव्यङ्ग्यभेदप्रतिनियतव्यञ्जकभेदव्यवस्थाक्लृप्तिः !
 
आनन्ददायिनी
 

 
व्यापारस्य वैयर्थ्यं; तेषां व्यञ्जकत्वादित्यत्राह किञ्चेति । कारकव्यञ्जक-
योर्व्यापारभेदादपि नैक्यमित्याह — कारकं समग्रमिति । व्यञ्जकं त्विति -
एकस्य दीपस्य युगपद्धटपटादिव्यञ्जकत्वदर्शनादिति भावः । कार-
कस्य व्यञ्जकत्वमेव यदि तदा बाधकमप्याह —तदत्रेति । न च
मृत्पिण्डे करकाद्यभावः ; क्रमेणोत्पद्यमानानां दर्शनादिति भावः । ननु
व्यञ्जकानां स्वभावभेदः कल्प्यते ; केषांचिद्युगपदनेकव्यञ्जकत्वं केषां -
चित् किञ्चिज्जातीयव्यञ्जकत्वं ; तथा च नोक्तदोष इत्यत आह-
व्यञ्जकत्वे सिद्धे इति । ननु आगन्तुकं नास्ति ; सर्वं पूर्वमेव सत्;
तथाच तदनुरोधाद्धादिकारणानां दण्डादीनां व्यञ्जकत्वमङ्गीकरणीय-
मित्याशङ्कय प्रत्यक्षादिभिरागन्तवस्सन्त्येवेत्यभ्युपगन्तव्यम्; अन्यथा
 
भावप्रकाशः
 
* किंचेत्यादिना । धर्मधर्मिणोरभेदेनावस्थानां प्राक्सत्ता न
सिध्यतीत्याह—