This page has not been fully proofread.

268
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
1
 
सर्वार्थसिद्धिः
 
' * अतः कारणाद्भिन्नत्वेन दृष्टं कार्यं तेनाकारेण पूर्वं नासी-
दिति त्वयैवाकामेनापि स्वीकर्तव्यम् । न हि घटाकारेण निष्पन्नस्य
 
आनन्ददायिनी
 
अभावे सर्वेषां खखावस्थाविशिष्टानां प्राक्सत्वात् किंचिन्न कस्य-
चिद्विकृतिरित्यर्थः । न च यद्यतः कदाचिदभिव्यक्तं तत्तद्विकृतिरिति
विभागः ; अभिव्यक्तेः प्रकाशात्मकत्वे प्रकृतेरपि कदाचिच्छब्दादिभिः
प्रकाशात्तद्विकृतित्वप्रसङ्गात् । आपरोक्ष्यविवक्षायां प्रकृत्यादि (त्यादीनां )
(प्रति) महदादि विकृतिर्न स्यात् । तस्या ( तेषामा) परोक्ष्याभावात् । न
च यद्यस्माद्विभज्यते सा तस्य प्रकृतिरिति विभागः ; विभागस्य प्राक्सत्त्वे
असत्त्वे च (उक्तदोषात् ) असाध्यत्वप्रसङ्गात् । न चाभिव्यक्तिरन्या ;
तस्याः पराभिमतोत्पत्तेरन्यस्या दुर्वचतया आद्यक्षणसम्बन्धात्मिकायाः
प्रागसत्त्वनियमादिति भावः । अवस्थायाः प्राक्सत्वे कारकव्यापार-
वैयर्थ्यमित्याह — नहीति । निष्पन्नस्य – सिद्धस्य निष्पाद्यत्वायोगात् ;
अन्यथा घटस्योत्पन्नस्य सर्वदोत्पादप्रसङ्गादिति भावः । ननु न कारक-
 
भावप्रकाशः
 
नुमाने पर्यवसानं बोध्यम् । ' अतः कारणाद्भिन्नत्वेनेत्यादि — एतेन
कार्यदृष्टेरिति मूलस्य कारणाद्भिन्नत्वेन कार्यस्य दर्शनादित्यर्थ इति
सिद्धम् । इत्थं च अवस्थानां कारणव्यापारात्पूर्वं सत्त्वसाधने प्रत्य-
क्षबाधो दोष उद्भावितो भवति । कारणाच्चास्य सतोऽभिव्यक्तिरव-
शिष्यते ; ' सतश्चाभिव्यक्तिरुपपन्ना' इति वाचस्पत्युक्तिं दूषयति--
 
6