2025-01-21 07:37:14 by ambuda-bot
This page has not been fully proofread.
सरः] त्रिगुणपरीक्षायां सत्कार्यवादहेतुनिरासे आकारान्तरेणासत एव कार्यत्वम् 267
तत्वमुक्ताकलापे
न स्वोचितात्कार्यदृष्टेः ।
सर्वार्थसिद्धिः
-
पञ्चानामप्याभासत्वाभिप्रायेण प्रतिवक्ति नेति । तत्र प्रथ-
मस्य प्रतिक्षेपे हेतुः कार्यदृष्टेरिति । शेषाणां तु सव
स्वोचितादिति विशेषितः । न तावत् कार्यमिति किमपि न
दृष्टम् ! सर्वलोकवेदविरोधात् । व्यक्तिसाधनस्यापि निराश्रय-
त्वप्रसङ्गाच्च । न च दृष्टमपि न सत्यम् ! माध्यमिकादिमतानां
निराकरिष्यमाणत्वात् । न च सत्यमपि न कारणाद्व्यतिरेकेण
गृह्यते! उक्तेोत्तरत्वात् । प्रकृतिविकृतीत्यादिविभागभङ्गप्रसङ्गाच्च ।
आनन्ददायिनी
सर्वकार्यसम्भवोऽस्तीति विपर्ययः । पञ्चानामिति - साधकानिष्टापादक-
रूपाणामनुमानतर्काणामित्यर्थः । विशिष्टस्य सर्वहेतुदूषणपरत्वे विशे-
पण वैयर्थ्यमाद्यहेतावित्यभिप्रायेणाह —तत्रेति । किञ्चिद्विशेषस्य किञ्चि-
द्विशेषं प्रति अन्वयव्यतिरेकवशात् कारणत्वोक्तौ नोक्तदूषणमिति
शेषाणां दूषणमाह — शेषाणां त्विति । स्वोचितत्वं-कार्यानुकृतान्वय-
व्यतिरेकित्वम् । कार्यदृष्टेरित्येतदुपपादयति — न तावदिति । तथाच
सत उत्पत्तिदर्शनाद्बाध इत्यर्थः । न चासत उत्पत्तौ शशशृङ्गस्या-
प्युत्पत्तिः । अन्वयव्यतिरेक सिद्धकारणाभावात् । निराश्रयत्वप्रसङ्गाच्चेति-
तथाच आश्रयासिद्धिरिति भावः । लोकविरोधपरिहारमाशङ्कते—
न च दृष्टमपीति । परिहरति — माध्यमिकादिमतानामिति । बाधाद-
र्शनेऽप्यसत्यत्वे सर्वत्राप्येवं प्रसङ्गेन माध्यमिकमतप्रसङ्गः स च निरा-
करिष्यत इत्यर्थः । उक्तोत्तरत्वादिति — पूर्वं घटो नासीदिदानीमासी-
दिति कारणाद्वयतिरेकेण लोकदृष्टेरित्यर्थः । प्रकृतीति — असदवस्थाया