2025-01-21 07:37:14 by ambuda-bot
This page has not been fully proofread.
सरः ]
त्रिगुणपरीक्षायां सत्कार्यवादद्वितीयतृतीयहेतुविवरणम्
265
सर्वार्थसिद्धिः
'* असतोऽप्यप्राप्तस्यापिसृष्टिः हेतुशक्तिनियमात् स्यादित्यस्यो -
तरमेतत् — अयं भावः – यदि कारणेष्वसत् तदप्राप्तं च कार्यमु-
त्पद्येत तदा तिलेभ्य एव तैलं किमुत्पद्यते न सिकताभ्यः ?
शक्ताशक्तप्रभेदादिति चेत्; सिद्धं नस्समीहितम् ! *तिलानां
तैलोत्पादनशक्तिर्हि तद्गर्भत्वमेव ! अन्यादर्शनात् । तदशक्तिश्च
आनन्ददायिनी
व्याप्तिरसति ग्राह्या; तत्र जन्यत्वादित्येव हेतुस्स्यात् तथाच प्रथम-
हेत्वभेद इत्याशङ्कय पूर्वहेतौ विपक्षे बाधकस्तर्क इत्याह-असतोऽपीति ।
ननु शक्तस्य जनकत्वं कथमप्राप्तस्योत्पत्त्यभावव्याप्तौ बाधकस्तर्क इत्य-
त्राह—अयं भाव इति । तद्गर्भत्वमेवेति —–—तैलगर्भत्वमेवेत्यर्थः !
भावप्रकाशः
तम् । असदकरणादुपादानग्रहणादित्यत्र विवक्षितहेतुद्वयाप्रयोजकत्व-
मपाकरोति मूले शक्तस्य शक्यकरणादितीत्याशयेनाह -
1 * असत इत्यादि - एतेन तत्वकौमुद्यां द्वितीयहेतुमात्राप्रयोजकत्वशङ्काप्र
दर्शनं प्रथमहेत्वप्रयोजकत्वस्याशङ्काया अप्युपलक्षणामिति । 'अत्र चेदमनु-
मानम् — विमतं शक्तिमत्कारणकं कार्यत्वात्' इति । शक्तितः प्रवृत्तेश्चे-
त्येतद्विवरणतत्वकौमुद्यनुरोधेनाह – 2 *तिलानामित्यादि - यद्यपि तत्वकौ -
मुद्यां उपादानग्रहणादिति हेतोरनयोजकत्वशङ्कावारणार्थं सर्वसम्भवा-
भावादिति हेतुरित्येतावन्मात्रमेवोक्तं; तथाऽपि मध्यमणिन्यायेन
हेतुचतुष्टये तच्छङ्कानिवारणाय मूले सर्वसम्भवाभावादित्युक्तमित्येव
युक्तमित्यभिप्रेत्याह-