2025-01-21 07:37:14 by ambuda-bot
This page has not been fully proofread.
264
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः
शक्ताशक्तप्रभेदादिभिरपि यदि
सर्वार्थसिद्धिः
1
घटादिकार्यमप्राप्तैरन्यत्र दण्डचक्रादिभिस्तस्योत्पत्तिः ; तन्त्वा -
दिभिर्वा पटादेः ! अतोऽवगम्यते स्वकार्यं प्राप्तैरेव निमित्तैरुपा-
दानैश्च स्वसाध्यसाधनमिति । *प्राप्तिश्च द्विनिष्ठेति *साध्य -
स्यापि साधनवत्पूर्वभावित्वात् सदेव साध्यमिति । 'शक्तस्य
शक्यकरणात्' इत्युक्तहेत्वभिप्रायेण शक्ताशक्तप्रभेदवचनम् ।
आनन्ददायिनी
उपादानग्रहणमुपलक्षणमित्याह — दण्डचक्रादिभिरिति । सदेव साध्य-
मिति - पूर्वमपि सदेव कार्यं साध्यमित्यर्थः । ननु शक्ताशक्त-
प्रभेदादिभिरित्यनुवादो न युक्तः कारिकायामदृष्टेरित्याशङ्कयाह-
शक्तस्येति । ननु घटादिकार्यं प्रागपि सत् शक्तकारणजन्यत्वादित्यत्र
भावप्रकाशः
* प्राप्तिश्च
कार्यस्यासत्त्वे न संभवतीत्युक्तम् ; तत्र प्रयोजकमाह
द्विनिष्ठेति । ' इतश्च कारणव्यापारात्प्राक् सदेव कार्यम् उपादा-
नग्रहणात्' इति तत्वकौमुदीवाक्यन मूले सत्कार्यमित्यत्र उपा-
दानग्रहणादिति हेतुर्विवक्षित इति प्रतीयते इति भावेनाह—
2* साध्यस्येत्यादि । एतेन ' अत्र चेदमनुमानं —- मृदादयः स्वसंबद्ध-
कार्यजनकाः उपादानकारणत्वादिति वंशीधरोक्तिर्मूलाननुगुणेति बोधि-