This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां सत्कार्यवाद प्रथमहेतुविवरणं खण्डनखण्डनं च
 
263
 
तत्वमुक्ताकलापः
 
णाप्राप्तनिष्पत्य (योगात्) दृष्टेः
 
सर्वार्थसिद्धिः
 
रणम् । अभावप्रतियोगिवचने विवक्षितविरुद्धोक्तेः । अभावमात्र-
विवक्षायां विरोधात् इति । उपादानग्रहणादित्यनेन विवक्षितं
हेतुं व्यतिरेकेण व्यनक्ति — अप्राप्तनिष्पत्यदृष्टेः इति । 'न हि
आनन्ददायिन
 
घटादिः—खरूपमेव नास्तीति वक्तुं न शक्यत इत्यर्थः । कुतः ?
तथा सति घटादिखरूपं न स्यात् । तत्र हेतुः - असतोऽघटादित्वात्
घटादिस्वरूपस्यातद्रूपत्वादित्यर्थः । तथाचायं निर्गलितार्थः — सत्त्वस्य
घटरूपत्वे असत्त्वस्यापि घटरूपत्वमविशेषादिति सत्त्वासत्त्वात्मकत्व-
योर्विरोधात् । अन्यतरपरिशेषे स्वरूपशून्यतायां पर्यवस्यतीति खण्डन-
तात्पर्यम् । किमत्र असत्त्वमभावप्रतियोगित्वं विवक्षितं उताभावात्म-
कत्वमिति विकल्पमभिप्रेत्य आद्यं दूषयति — अभावेति । अभाव-
प्रतियोगित्वेऽपि सत्त्वविरोधाभावेन असत्त्वासिद्धेरित्यर्थः । द्वितीय-
आह— विरोधादिति । भावात्मकत्वेन घटादेरुपलम्भादभावात्मकत्वा-
भावा (त्वविरोधा) दित्यर्थः ॥
 
ननु सांख्यकारिकायां उपादानग्रहणादित्युक्तम् ; मूलेऽप्राप्तनिष्पत्त्य-
योगादित्यनुवादोस्ति ; स न युक्त इत्यत्राह -- उपादानग्रहणादित्यनेनेति ।
 
भावप्रकाशः
 
तत्कारणनिष्पाद्यत्वमपि नास्तीति व्यतिरेकव्याप्तिरापे निमित्तोपादानसाधा-
रणीत्यभिप्रेत्याह – 1 * न हीत्यादि - कारणपदस्य परिणामिकारणपरतया
संकोच कल्पनं वंशीधरस्यायुक्तमिति भावः । तत्वकौमुद्यां सम्बन्धश्च