2025-01-21 07:37:12 by ambuda-bot
This page has not been fully proofread.
262
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
सर्वार्थसिद्धिः
चेत्; वस्तुनस्ता अनादितैव ! न च सन्निव असन् घटः
प्रागुपलभ्यते ! अस्माकं तु अव्यक्तावस्थयाऽनुपलब्धिरप्युक्ता ।
नासन् घटादिर्न घटादि:' इति तु कस्यचिद्वचनं बालप्रता-
आनन्ददायिनी
वासत्त्वकालेऽप्यसत्तया चोपलब्धिः प्रसज्येत ; नचेष्टापत्तिः; अनुभव-
विरोधादित्याह—वस्तुनस्तर्हीति । ननु सर्वदा सत्त्वे तवाऽपि सर्वदा
सत्त्वेन प्रतीतिस्स्यादित्यत्राह - अस्माकं त्विति । यद्यप्यव्यक्तावस्था-
व्यक्तावस्थयोर्विरोधात् कथं व्यक्तस्यैवाव्यक्तत्वम् ? कालभेदेनाविरोधेऽ-
प्यव्यक्तावस्थस्याप्रतीतिवदसत्त्वावस्थस्याप्यप्रतीतिरिति वक्तुं शक्यम् ;
तथाऽप्येकस्यैव व्यञ्जकसन्निधानासन्निधानाभ्यां समावेशो दृष्टः ; न तथा
सत्त्वासत्त्वसमावेश इति भावः । सत्त्वविशिष्टस्य कारणत्वखण्डनाय ;
'किञ्च स्वरूपसत्त्वं स्वरूपाद्धटाद्यात्मनो नाधिकम् । असतोऽपि च
स्वरूपं स्वरूपमेव । न सन् घटादिर्न घटादिः । तथा सति घटादिर्नेत्यपि
न स्यात् ; असतोऽघटादित्वात् इति खण्डनोक्तमनुवदति---न ह्यसन्
घटादिरिति । अत्त्वेन स्वरूपेण व्यवह्रियमाणं घटादि घटादिरूपं
न भवतीति न स्वरूपमेव सत्त्वमिति यावत् । तत्र प्रतिबन्दि:-
तथा सति स्वरूपसत्त्वाभावे घटादिसत्ताऽपि स्वरूपं न स्यात् ;
सत्त्वं न स्यात् । तत्र हेतुः असतोऽघटादित्वात् — स्वरूप-
त्वाभावात् ; तथाच निषेधो न स्यात् । प्रतियोगिनोऽभावादिति
भावः । तथाच सत्त्वस्य घटरूपत्वे असत्त्वस्यापि घटरूपत्वमविशेषा-
दिति सत्त्वासत्त्वात्मकत्वयोर्विरोधात् सदसद्विलक्षणत्वरूपानिर्वचनीयत्वं
पर्यवस्यतीति असन् घटादिः --असत्त्वेन व्यवह्रियमाणघटादिः न
तथा च