This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां सत्कार्यवादप्रथमहेतुविवरणम्
 
261
 
सर्वार्थसिद्धिः
 
एवं यद्यतोऽन्यत् न तत्सर्वं कदाचिदपि तत्स्यात् ; प्रमाणादे-
रपि कदाचिदप्रमाणत्वप्रसङ्गात् । नचातीतादेर्वर्तमानतादि-
रीश्वरेणापि सुनिष्पाद: असत्त्वं सत्त्वं च वस्तुनोऽवस्थेति
आनन्ददायिनी
 
धर्मवत्त्वमविरुद्धम् ; तथाच सत्त्वासत्त्वे धर्मों घटस्य सत एवेति शङ्कते -
असत्त्वं सत्त्वं चेति । तर्हि सत्त्वासत्त्वाश्रयस्यानादितया सत्त्वकाले सत्तये
 
भावप्रकाशः
 
रोक्तया नीलपीतयोः प्रकृतिपरिणामत्वेन प्रकृत्यनतिरिक्ततया यथा-
श्रुतेऽसंगतिरिति चोद्यस्यापि नावकाशः । कारणात् कार्यस्याविभागः
अनभिव्यक्तिरूपः अतीताख्यो लक्षणपरिणामः । कारणात् कार्यस्य
विभागः अभिव्यक्त्यात्मकः वर्तमानताख्यो लक्षणपरिणामः । तयोरैक्ये
सृष्टिप्रलययोरैक्यं स्यादिति भेद एवास्थेय इत्याह-- ' *नचातीतादे-
रित्यनेन । अयमेव हि सत्कार्यवादिनामसत्कार्यवादिभ्यो विशेषः-यत्
तैरुच्यमानौ प्रागभावप्रध्वंसौ सत्कार्यवादिभिः कार्यस्यानागताततिावस्थे
भावरूपे प्रोच्येते । वर्तमानाख्या चाभिव्यक्तयवस्था घटाद्व्यतिरिक्तेष्यते
घटादेरवस्थावत्त्वानुभवादिति विज्ञानभिक्षुणावस्थातद्वतोर्भेदोक्तेः नात्र
पूर्ववच्चोद्यमुदतीति बोध्यम् । उपादानग्रहणादिति हेतुः तत्वकौमुद्या-
मित्थं विवृतः — उपादानानि कारणानि । तेषां ग्रहणं कार्येण
संबन्धः । उपादानैः कार्यस्य सम्बन्धादिति यावत् । एतदुक्तं
भवति – कार्येण सम्बद्धं कारणं कार्यस्य जनकम् । सम्बन्धश्च
कार्यस्यासतो न सम्भवति इति अत्रोपादानपदस्य निमित्तोपादानोभयसा-
धारण्येन कारणमात्रपरत्वोक्तया कार्यं स्वसम्बद्धकारणकं कारणनिष्पन्न-
त्वात् इति मूलविवक्षितानुमाने यत्र स्वसम्बद्धयत्कारणकत्वं नास्ति तत्र
 
-