This page has not been fully proofread.

260
 
संव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
न सत् खपुष्पादि क्रियेत ! माभून्नित्यासतः करणम् ! अत्र
प्रागसत्त्वमात्रं विवक्षितमिति चेन्न ; तदेव कदाचिदसतस्सर्व-
दैवासत्त्वापातात्। न चासतः कदाचित् सत्त्वापत्तिः ; विरोधात् ।
*न हि चिच्छक्तेः कदाचिदपि जडत्वं जडस्य वा चित्त्वम् ;
आनन्ददायिनी
 
मूलेऽपि सदितरजननाप्राप्तनिष्पत्त्ययोगात् इति व्यतिरेकव्याप्तिप्रदर्शन-
मुखेन उक्तहेतुद्वयमभिप्रेतम् ; अन्यथा वैयधिकरण्यप्रसङ्गात् ।
कारणभावात् – काणात्मकत्वादिति तृतीयो हेतुः । सर्वसंभवाभावात्
शक्तस्य शक्यकरणात् इति आद्यद्वयस्यानुग्राहकम् । तथाच प्रथममुक्तं
तर्कतद्धेतुद्वयं दूषयितुं हेतुद्वयं व्याख्यातमिति द्रष्टव्यम् । व्यतिरेक-
व्याप्तौ नित्यासत्त्वं साधनावच्छिन्नसाध्यव्यापकमुपाधिरिति शङ्कते -
माभूदिति । साध्यस्यासत्त्वमात्रस्य अनुकूलतर्कबलाव्याप्तिग्रहे साधना-
व्यापकता नास्तीत्याह – नेति । साधनाव्यापकत्वभङ्गमेवोपपादयति-
नचासत इति । कालभेदेनाऽप्यविरोधासंभवादित्यर्थः । ननु एकस्यानेक-
 
भावप्रकाशः
 
परत्वेन तत्साधकत्वात् ; तथा हि-विमतं कालत्रये सत् जन्यत्वादित्यादि ।
अत्र तत्वकौमुद्यां ' असच्चेत्कारणव्यापारात्पूर्वं कार्यं नास्य सत्त्वं केना-
पि कर्तुं शक्यम् । न हि नीलं शिल्पिसहस्रेणाऽपि पतिं कर्तुं शक्यम्'
इत्युक्तम् ; तत्र नीलवस्त्रादेः क्षारादिना नीलरूपपरावृच्या हरिद्रादिना
पीततासंभवमालोच्य तत्वकौमुदीवाक्यस्य अन्यस्यान्यथाभावानुपपत्तौ
तात्पर्यमाकलय्य दृष्टान्तान्तरमाह नहि चिच्छक्तेरित्यादिना । एतेन
साङ्ख्यमते धर्मधर्मिणोर्भेदो नाङ्गीक्रियते इति तत्वकौमुदीविभाक-
 
1