This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां सांख्योक्तसत्कार्यवादहेतवः
 
259
 
तत्वमुक्ताकलापः
 
सन्ति प्रागप्यवस्थाः सदितर (जनना) कर-
 
सर्वार्थसिद्धिः
 
ईदृशसत्कार्यवादमसहमानस्य साङ्ख्यस्य नित्यैकान्तवाद-
 
नियताने प्रयोगानन्वाह — सन्तीति । द्रव्यपक्षीकारे अस्मान्
प्रति सिद्धसाध्यता ; अतोऽवस्था इत्युक्तम् । यदाहुः साङ्ख्याः-
असदकरणात् उपादानग्रहणात् सर्वसंभवाभावात् ।
 
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥
 
इति । तत्रायं सदितरकरणादृष्टेरि' *त्येको हेतुः । अप्राप्तनिष्पत्य-
दृष्टेरिति द्वितीयः । सदितरशब्देन प्रागसत्त्वमिह विवक्षितम् ।
 
आनन्ददायिनी
 
आक्षेपिकी संगतिरित्यभिप्रायेणाह - असहमानस्येति । नित्यैका-
न्तवादित्वात्तस्य देहादेः पञ्चभूतोपादा नकत्वायोगादित्यर्थः । एकान्तता
चैकरूपता I तथाच सर्ववस्तूनामेकरूपत्वान्नागन्तुकावस्थाऽपीति
भावः । असदकरणादिति । कार्यं कर्यत्वेनाभिमतं घटपटाद्यात्मक-
मिति पक्षः । सदिति साध्यम् ; सर्वदा सदित्यर्थः । एवमपरमपि
द्रष्टव्यम् । उपादानग्रहणादित्यस्य उपादानेन संबन्धात्कार्यस्येत्यर्थः ।
कार्यं सत् उपादानेन संबद्धत्वात् इति द्वितीयः । तमपि व्यतिरेकव्याप्ति-
प्रदर्शनमुखेन व्याख्याति — अप्राप्तनिष्पत्त्य (सिद्धेः)दृष्टेरिति । तथा च
 
1
 
भावप्रकाशः
 
"* एको हेतुरिति — अत्राह वंशीधरः — हेतुपदस्य व्यतिरेकव्याप्ति -
 
17*