2025-01-21 07:37:11 by ambuda-bot
This page has not been fully proofread.
258
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
समष्टिव्यष्टिनीत्यैव त्रिगुणे वदति श्रुतिः ।
ईदृक् सत्कार्यवादश्च वैदिकैः परिगृह्यते ।
द्रव्यस्य पूर्वसिद्धस्य साध्यावस्थाविशेषतः ।
ननु यदि पूर्वं नित्यं सद्द्रव्यम् ! तत्कथं साङ्ख्यपक्षमुज्झतः
कार्य
स्यात् ? या त्वागन्तुक्यवस्था सा न प्राक्सती ; अतः कथं
सत्कार्यवादं ब्रूथ ? इत्थम् ! प्राक्सदेव द्रव्यमवस्थान्तर-
विशिष्टवेषेण कार्यम् ; तथैव लोकवेदव्यवहारस्थितिरिति ॥२३
इति त्रिगुणपरीक्षायां देहादेः पाञ्चभौतिकत्वं
सद्दव्यवादिनिगमनं च.
आनन्ददायिनी
प्रकृतिविशेषणं बहुत्वमित्याहुः । ननु आगन्त्ववस्थायोगित्वमेव कार्यत्वं
द्रव्यस्य ; न त्वसत उत्पत्तिः ; अत एव शरीरस्यापि पाञ्चभौतिकत्वमिति
इयता प्रतिपन्नम् ; तदयुक्तम् ; ईदृशसत्कार्यवादस्य साङ्ख्यैरनङ्गीकारे
सत्कार्यवादत्वाभावात् इत्यत आह — ईहक्सत्कार्यवादश्चेति । ननु
अगन्तुक्योऽवस्थाः; तथाऽपि तद्वत्त्वेन सत्कार्यपक्षो नोपपद्यते इत्याशङ्कते-
नन्विति । साङ्ख्यमतमुज्झत इति — अभिव्यक्तिपक्षमनभ्युपगच्छत
इत्यर्थः ॥ २३ ॥
-

सद्द्रव्यवादनिगमनं च.